________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्या द्वितीयः सर्गः [113 अन्वयः-धीरस्य, अमुष्य, जयाय, साहसी, सः, चक्रमुचा, चक्रिणा, वशीकृतः, गजवाजिराजिभिः, समम् , समाः, विभूतिकाः, समादाय, तता, प्रयाणे, बलाध्वनि, ध्वनिम् , दधत् , वेषिवलम् , तदा, खलु, विशिक्षः, ज्याम् , सनाथयन, चमूपतिः, पुरस्सरीभूय, तत्प्राणदबाणसञ्चयः, स्वयं, रुरोध, // 53-54 // 'वृत्तिः-धीरस्य-धैर्यान्वितस्य,स्वतन्त्रस्य वा 'धीरो धैर्यान्विते स्वरे' इति मेदिनी / अस्यसेनापतेः / जयाय-विजयाय / साहसी-साहसं हठः अविमृश्य कार्यकारित्वं हिताहितानपेक्षं कर्म वेति यावत्, अस्येति साहसी / सः-प्रसिद्धः आक्रन्ता कश्चिद्वीर इति यावत् / चक्रमुचा-चक्रम् अनविशेष मुञ्चतीति चक्रमुक् चक्रप्रक्षिप्ता, तेन तथा / चक्रिणा-चक्रवर्तिना, सार्वभौमेनेति यावद्भगवता शान्तिनाथेन / वशीकृतः-अधीनीकृतः, स्वायत्तीकृत इत्यर्थः, जित इति यावत् / गजवाजिराजिभिः-गजा हस्तिनश्च वाजिनोऽश्वाश्च गजवाजिनस्तेषां राजयः श्रेणयः समूहा इति यावद् गजवाजिराजयः ताभिस्तथा / समम्-सह / समाः-सकलाः। “समग्र सकलं समम्” 669 // इत्यभि० चि० / विभूतिका:-विभूतयः सम्पत्तयः एव विभूतिकास्तास्तथा, स्वार्थे कः प्रत्ययः / समादायसम्यग् गृहीत्वा / ततः-तस्मात् स्थानात् / प्रयाणे-प्रस्थाने / बलाध्वनि-बलाना सैन्यानामध्वा मार्गो बलाध्वा तस्मिंस्तथा / ध्वनिम्-अव्यक्तशब्दम् / दधत्-धारयत् / द्वेषिवलम्-शत्रुवर्गम् / तदा-तस्मिन् समय एव, सर्व वाक्यं सावधारणं भवतीति नियमात् / खलु-निश्चयेन / विशिखैःबाणः / ज्याम्-मौर्वीम् / सनाथयन्-संयोजयन् / चमूपतिः-सेनानायकः / पुरस्सरीभूय-अपुरस्सरः पुरस्सरो भूत्वा पुरस्सरीभूय, अग्रेसरीभूयेति यावत् / तत्प्राणदबाणसञ्चयैः-तेषां बलानां प्राणः असवः तत्प्राणास्तान द्यन्ति-अवखण्डयन्ति समूलमुन्मूलयन्तीति तत्प्राणदास्ते च ते बाणास्तत्प्राणदबाणास्तेषां सञ्चयास्तत्प्राणदबाणसञ्चयास्तैस्तथा / स्वयम-आत्मना / रुरोध-अवरुरोध, निवारया मासेति यावत् / अत्र-चतुर्थपादस्थानापन्नः-"कृपाणपाणिः सह सेनयाऽरुधत्' / इत्यपि पाठो दृश्यते कृपाणं खड्गः पाणौ हस्ते यस्य स कृपाणपाणिश्वमूपतिः सेनया-कटकेन सह समम् अरुधत्-न्यवारयत्" इति तदर्थः परन्त्वेतत् पाठापेक्षया प्रथमः पाठः साधीयान् अन्यथा तस्य द्वेषिबलं सेनया सह अरुधत्" इत्येवं पौनरुक्त्यप्रसङ्गात् / / 53 // 54 // पुरः स्फुरन कोऽपि सुरश्चमूं सृजन्, भयातुरां भैरवफेरवारवैः / निमज्जयामास यशांसि संशये, युयुत्सुरस्या विविधायुधैः क्रुधा // 55 // अन्वयः-भैरवफेरवारवैः, भयातुराम् , चमूम् , सृजन, क्रुधा, विविधायुधः, युयुत्सुः, पुरः, विलसन् , कोऽपि, सुरः, अस्याः, यशांसि, संशये, निमजयामास // 55 //