SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 112 ] ....... श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रेप्रपातदेशो येन सोऽवतीर्णकन्दराप्रपातदेशस्तस्य तथा / "प्रपातस्त्वतटो भृगुः” इत्यमरः / नृपस्यराज्ञः श्रीमतः शान्तिनाथस्य / तत्परम्-तदनन्तरम् / तदुच्चधैर्यव्ययसंहितेषुणा-तस्य भगवतः शान्ति नाथस्य उच्चर्यमतिशयितधीरता तदुच्चधैर्य्यम् , तस्य व्ययाय विनाशाय संहिता सन्धानमानीता इषवो बाणा येन स तदुच्चधैर्यव्ययसंहितेषुस्तेन तथा / अरिणा-शत्रुणा / ( सह ) अरिणा-चक्रेण / "रथाङ्गं रथपादोऽरि चक्रम्" 3 / 419 // इत्यभि०चि० / असृजा-रुधिरेण, रक्तेनेति यावत् / अरुणःरक्तः / रक्तमयो रक्तवर्णो वेति यावत् / रणः-युद्धम् / अभूत्-अभवत् / / 51 // क्रमेण सेनापतिनाऽर्हदाज्ञया, बलेन जिग्ये सुरसिन्धुनिष्कुटम् / / वशीकृतस्तत्र वसञ्जनोङ्गिना, स्मरेण च स्वात्मशरासनाश्रयः // 52 // अन्वयः- सेनापतिना, अहंदाज्ञया, क्रमेण, बलेन, सुरसिन्धुनिष्कुटम् , जिग्ये, च, अङ्गिना, स्मरेण, तत्र, वसन् , स्वात्मशरासनाश्रयः, जनः, वशीकृतः, // 52 // . वृत्तिः-सेनापतिना-कटकनायकेन / अहंदाज्ञया-जिनेश्वरचक्रिश्रीशान्तिनाथानुशासनेन / क्रमेण-क्रमशः / बलेन-सैन्येन, सामर्थ्येन वा, तन्त्रत्वस्वीकारादुभयेन वा / सुरसिन्धुनिष्कुटम्सुराणां देवानान् सिन्धुनंदी सुरसिन्धुस्तत्र निष्कुटम्-गृहारामः सुरसिधुनिष्कुटम् , गङ्गातटवर्ति गृहाराम इति यावत् / “निष्कुटस्तु गृहारामः” 4 / 178 / / इत्यभि०चि० निष्कुटशब्दस्य "अर्धर्चादित्वाद्देहो देहम् शरीरः शरीरम् इत्यादिवद्विलिङ्गता स्वीकरणीया, यथाश्रतकोशानुसारात्तस्य पुल्लिङ्गतया कर्मवाच्यानुसारेण प्रथमैकवचने “सुरसिंधुनिष्कुटम्” इति प्रयोगोऽनुपपन्नः स्यात् / जिग्येजितम् / च-पुनः / अङ्गिना-मूर्तिभृता, शरीरधारिणेति यावत् / स्मरेण-कन्दर्पण / कुन्दर्पतुल्यसौन्दर्यशालिना सेनापतिना तेनेति यावत् / तत्र-तद्देशे / वसन्-निवसन् / स्वात्मशरासनाश्रयःस्वात्मा निजदेहः शरासनस्य तदीयधनुष आश्रय आधारो यस्य स तथा, पक्षे धनार्पकः शराणां जलानाम् आसनानि शरासनानि तषामाश्रयः शरासनाश्रयः स्वं धनश्च आत्मा देहश्च स्वात्मानौ ताभ्यां शरासनाश्रयस्तथा / 'स्वः स्याद पुंस्यात्मनि ज्ञातौ, त्रिष्वात्मीये धनेऽस्त्रियाम्' 'आत्मा पुंसि स्वभावेऽपि प्रयत्नमनसोरपि / धृतावपि मनीषायां, शरीरब्रह्मणोरपि' इत्युभयत्र मेदिनी / 'शरं जले, शरः पुनर्दघिसारे, काण्डतेजनयोरपि' इत्यनेकार्थः। जनः-लोकः / वशीकृतः-वशंवदो विहितः // 52 / / अमुष्य धीरस्य जयाय साहसी, वशीकृतश्चक्रमुचा स चक्रिणा / ततः प्रयाणे गजवाजिराजिभिः, समं समादाय समा विभूतिकाः // 53 // बलाध्वनि द्वेषिबलं दधद् ध्वनि, तदा खलु ज्यां विशिखैःसनाथयन् / पुरस्सरीभूय चमूपतिः स्वयं, रुरोध तत्प्राणदबाणसञ्चयः // 54 //
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy