SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्यां द्वितीयः सर्गः [ 111 अतिशयितसूक्ष्मकालविशेषेणैव / परिक्षिप्तसहस्रमाणः-परिक्षिप्ताः शत्रुसैन्योपरि पातिताः दूरीकृताश्च सहस्रं सहस्रसंङ्ख्याका मार्गणा बाणा याचकाश्च येन स तथा 'मार्गणस्तु शरेऽर्थिनि'इत्यनेकार्थः / सः-पूर्वोक्तविशेषणविशिष्टतया प्रसिद्धः कश्चन वीरशिरोमणिः / पुरप्रदोषे-अग्रिमक्षणे, अग्रिमसमये वा / “प्रदोषः समये दोषे” इति मेदिनी / सेनापतिना-अनीकिनीनायकेन / शरैः-बाणैः / उर:वक्षः। विभिद्य-विशेषेण भित्त्वा, विदायेति यावत् / यमातिथीकृतः-यमस्य कृतान्तस्य यमराजस्येति यावत् / अतिथिः प्राघुणिको यमातिथिः, अयमातिथिर्यमातिथिः कृतः सम्पादितो यमातिथीकृतः / / 49 / / मनः प्रसत्या विजयः श्रुतौ धृतः, क्षमाभुजा भीमनृपात्मजालयः / प्रदाय तस्मै गजवाजिराजितां, यथेच्छया देशभुवं पराजिताम // 50 // अन्वयः–क्षमाभुजा, भीमनृपात्मजालयः, विजयः, मनः, प्रसत्त्या, यथेच्छया, गजवाजिराजिताम् , देशभुवम् , तस्मै, प्रदाय, श्रुतो, भृतः // 50 // ___वृत्तिः-क्षमाभुजा-क्षमा पृथिवीं मुनक्ति पालयति इति क्षमामुक् तेन तथा। पृथिवीपालकेन भगवता शान्तिनाथेन / भीमनृपात्मजालयः-नृपस्य राज्ञ आत्मजः पुत्रो नृपात्मजः, भीमःभीमनामा चासौ नृपात्मजः भीमनृपात्मजः स आलयो निवासस्थानं यस्य स तथा / विजयः-जयः / मनःप्रसत्त्या-चित्तप्रसन्नतया। यथेच्छया-इच्छानुसारम् यथेप्सितमिति यावत् / गजवाजिराजिताम्गजा हस्तिनश्च वाजिनोऽश्वाश्च गजवाजिनः तै राजिता शोभिता गजवाजिराजिता तान्तथा / पराजिताम्-रिपुपराजयं विधायाधिगताम् परैः शत्रुभिरजिता पराजिता तान्तथा / देशभुवम्-देशस्य मण्डलस्य भूर्भूमिः, देश एव वा भूर्देश भूस्तान्तथा / तस्मै-भीमनृपात्मजाय / प्रदाय-वितीयं दत्त्वेति यावत् / श्रतों-श्रवणे कर्णे इति यावत् / धृतः-अधारि // तदीयविजयश्रवणसमनन्तरमेव तादृश विशेषणविशिष्टां देशात्मकभूमिं प्रादात्तस्मै भगवानिति भावः // 50 // ततः प्रयाणादवतीर्णकन्दरा-प्रपातदेशस्य नृपस्य तत्परम् / ... तदुच्चधैर्यव्ययसंहितेषुणा-ऽरिणा रणोऽभूदरिणाऽसृजाऽरुणः // 51 // अन्वयः-ततः, प्रयाणात् , अवतीर्णकन्दराप्रपातदेशस्य, नृपस्य, तत्परम् , तदुच्चधैर्यव्ययसंहिते. पुणा, अरिणा, (सह) अरिणा, असृजा, अरुणः, रणः, अभूत् // 51 // . वृत्तिः-ततः-तदनन्तरम् / प्रयाणाद-प्रस्थानात् / अवतीर्णकन्दराप्रपातदेशस्य-कन्दरा वैताड्यनगस्था खण्डप्रपाताभिधा दरी तस्या प्रपातोऽतटश्च कन्दराप्रपातः तस्य देशः प्रदेशः स्थानमिति यावत्, कन्दराप्रपातदेशः, अवतीर्णः पूर्वदर्शितरीत्या प्रकाशपद्यादिकरणेन पारितः कन्दरा
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy