________________ 10.] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे यूनां तरुणजनानां धैर्य धीरता युवधैर्यम् तल्लोपयति दूरीकरोति तच्छीलो युवधैर्यलोपी तन्तथा / जयम्-जयशब्दम् / निशम्य-आकर्ण्य श्रुत्वेति यावत / राजनिग्रहः-राज्ञः खगाद्रिराजस्य निग्रहो दण्डः पराजय इति यावद्राजनिग्रहः / अजनि-जातः / इति लोकैरवगतमितिशेषः / / 43 // नृपः प्रसन्नो हि धनाय साधन-स्तदन्यथाऽयं निधनाय बाधनैः / खगाद्रिराजोऽस्य निदेशदेशने, नलोपिलोकादशृणोद्गुणोत्करम् // 44 // अन्वयः-हि, नृपः, साधनैः, धनाय, प्रसन्नः, तदन्यथा, अयम्, बाधनैः, निधनाय, खगाद्रिराजः, निदेशदेशने, नलोपिलोकात् , अस्य, गुणोत्करम् , अशृणोत् // 44 // __ वृत्तिः-हि-निश्चयेन / नृपः-नराधिपः / प्रसन्नः-प्रीतः / साधनैः-साध्यते निष्पाद्यत एभिरिति साधनानि, धनादिप्रयोजकोपकरणानि, तैस्तथा / धनाय-वित्ताय भवतीतिशेषः / तदन्यथातद्विपरीतः / अयम्-एषः, नृपश्चक्रीतियावत् / बाधनैः-बाधाकरैरुपायैः। निधनाय-मरणाय / भवतीतिशेषः / खगाद्रिराजः-वैताढ्यपतिर्विद्याधरनृपः / निदेशदेशने-निदेश आज्ञा दिश्यतेऽस्मिन्निति निदेशदेशनम् तस्मिंस्तथा / नलोपिलोकात-न लोपयति निदेशं तच्छीलो नलोपी नैकधेत्यादिवन्निषेधार्थकस्य नशब्दस्य विवक्षणादोषाभावः नलोपी प्रत्ययित आप्त इति यावत् चासौ लोको जनो नलोपिलोकस्तस्मात्तथा। अस्य-पञ्चमचक्रिणो भगवतः शान्तिनाथस्य / गुणोत्करम्-गुणानां त्यागशौर्यवीर्य्यादीनामुत्करः समूहो गुणोत्करस्तन्तथा / अशणोत्-अौषीत , श्रुतवानिति यावत् / / 44 / / तमेव लब्ध्वावसरं ततः स्मर-स्वरूपभूपाय खगाचलेश्वरः। निजाङ्गनापूर्वमपूर्ववस्तुभिः, कृताधिकोपाय-नमन्मुदेऽभवत् // 45 // अन्वयः-ततः, खगाचलेश्वरः, तम् , अवसरम् , एव, लब्ध्वा, कृताधिकोपाय, स्मरस्वरूपभूपाय, अपूर्ववस्तुभिः, निजाङ्गनापूर्वम् , नमन् , मुदे, अभवत् // 45 // . वृत्तिः-ततः-तदनन्तरम् / खगाचलेश्वरः-वैताढ्यपर्वतराजः, खगाद्रीश इति यावत् / तम्-तत्काल प्राप्तन्तादृशम् / अवसरम-योग्यकालम् / एव-अवधारणार्थकमव्ययम् / लब्ध्वा-सम्प्राप्य / कृताधिकोपाय-कृतः अन्तर्भावितणिगर्थत्वात्कारित इत्यर्थः। अधि-अधिकः कोपः क्रोधो यं स कृताधिकोपस्तस्मै तथा / स्मरस्वरूपभूपाय-स्मरस्वरूपः कन्दर्पतुल्यश्चासौ भूपः पृथ्वीपालकः स्मरस्वरूपभूपः भगवान् शान्तिनाथ इत्यर्थः, तस्मै तथा / अपूर्ववस्तुभिः-अपूर्वाणि अभूतपूर्वाणि, अत्यन्तममूल्यानीति यावत् तानि वस्तूनि तैस्तथा / निजागनापूर्वम्-स्वीयरमणीसहितं यथास्यात्तथा /