________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः नमन्-प्रणमन् / मुदे-हर्षाय / अभवत-समजायत / अत्र “कृताधिकोपायनमन्" इति श्लिष्टम् / तेन पक्षे-अधिकं पर्याप्तश्च तदुपायनमुपहारः अधिकोपायनम् कृतं विहितं च तदधिकोपायनम् कृताधिकोपायनम् , तेन मदयति हृष्यतीति कृताधिकोपायनमन् क्विपि रूपम् , खगाद्रिराज विशेषणतयाऽवसेयमिति // 45 // वरैरमुष्याभरणेमणीमयैः, शरीरशोभाजयजातमत्सरः / तदा परः कोऽपि युयुत्सयाऽपतद्, बलस्य नाशाय ससौप्तिकाशया // 46 // अन्वयः-तदा, वरः, मणीमयः, अमुष्याभरणैः, शरीरशोभाजयजातमत्सरः, कोऽपि, परः, युयुत्सवा, ससौप्तिकाशया, बलस्य, नाशाय, अपतत् // 46 // वृत्तिः-तदा-तस्मिन्समये / वरैः-सुन्दरैः / श्रेष्ठैरिति यावत् / मणीमयैः-मण्यो मणयः रत्नानीति यावत् प्रचुराणि सन्त्येष्विति मणीमयानि तैस्तथा। अत्र मणीशब्दः स्त्रीलिङ्गो ड्यन्तोऽवसेयः, यद् ‘गुरुगममणीसङ्कल' मिति संसारदावास्तुती, नैषधीयेऽपि 'नृपनीलमणीगृहत्विषा 275 // इति / 'इतोऽक्त्यर्थात्' 24 / 32 / इतिङीः / अमुष्य-अस्य, भगवतः शान्तिनाथस्येति यावत् / आभरणैःआभ्रियते शरीरमेभिरित्याभरणानि तैस्तथा, अलङ्करणैरित्यर्थः / शरीरशोभाजयजातमत्सरः-शरीरस्य स्वदेहस्य शोभा सौन्दर्यम् कान्तिश्छविरिति यावच्छरीरशोभा तस्या जयः शरीरशोभाजयस्तेन जात उत्पन्नो मत्सरः क्रोधो यस्य स तथा / कोऽपि-काश्चिदनिर्वचनीयः / परः-शत्रुः / युयुत्सयायोद्भुमिच्छया / ससौप्तिकाशया-निशि सुप्तेषु भावं सौप्तिकम् , अभ्यासदनम् छलादाक्रमणमिति यावत् / अध्यात्मादित्वादिकण तेन सहिता ससौप्तिका, सा चासावाशा मनोरथः ससौप्तिकाशा तया तथा / "प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः। तद्रात्रौ सौप्तिकम्" 3 / 465 / / इत्यभि० चि० / बलस्य-सैन्यस्य / नाशाय-विनाशाय / विध्वंसायेति यावत् / अपतव-पतितः इति // 46 // शराशरि व्यक्तगदागदि क्रुधा-ऽऽयुधाऽनुधावद्भटकोटिदारुणः। अमोघशक्त्या निजयेव मूर्तया, रणोऽभवद् भूरिभयाय भूभुजाम् // 47 // अन्वयः- भूभुजाम् , भूरिभयाय, मूर्तया, निजया, अमोघशक्त्या, इव, शराशरि, व्यक्तगदागदि, क्रुधाऽऽयुधाऽनुधावद्भटकोटिदारुणः, रणः अभवत् // 47 // वृत्तिः-भूभुजाम्-भुवं पृथिवीं भुञ्जन्ति पालयन्तीति भूमुजो राजानस्तेषान्तथा। मरिभयायभूरि अतिशयितञ्च तद् भयं भीतिभूरिभयम् तस्मै तथा / सजगणात्यन्तभीतिजननायेत्यर्थः / यद्वा भूभुजाम् रणः भूरिभयाय लोकानामिति शेषः / मृर्तया-शरीरधारिण्या। निजया-स्वकीयया /