________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्यां द्वितीयः सर्गः [ 107 समुद्दिश्य-लक्ष्यीकृत्य / का-किमात्मकः / गुण:-सन्धिविप्रहादिः। न-नहि / योजित:-प्रयोजितः / आयोजित इत्यर्थः / अनुसंहित इति यावत् / अपि तु सर्वोऽपि प्रयोजित इति भावः / अत्र कोदण्डकरेण धनुष्पाणिना जिनेन सानुगं नृपं समुद्दिश्य गुणो ज्या न योजित इत्यप्यन्वयो विधेय इति / / 41 // खगाद्रिराज समरेष्वतन्द्रित, श्रयन्तमन्तर्घटनागुणश्रियम् / पराक्रमः पञ्चमचक्रिणः क्रमा-निवार्य चक्रे क्रमसेवनोन्मुखम् // 42 // अन्वयः-पञ्चमचक्रिणः, पराक्रमः, समरेषु, अन्तर्घटनागुणश्रियम् , श्रयन्तम् , अतन्द्रितम् , खगाद्रिराजम् , क्रमात् , निवार्य, क्रमसेवनोन्मुखम् , चक्रे // 42 // वृत्तिः–पञ्चमचक्रिणः-पञ्चमश्चासौ चक्री पञ्चमचक्री तस्य तथा / पञ्चमचक्रवतिनो भगवतः शान्तिनाथस्येति यावत् / पराक्रमः-विक्रमः, उद्योगः सामर्थ्यमिति यावत् / समरेषु-युद्धेषु / अन्तर्घटनागुणश्रियम्-अन्तः मध्ये घटनागुणः, तस्य श्रीः शोभा, स एव श्रीः सम्पद वा अन्तर्घटनागुणश्रीस्तान्तथा / श्रयन्तम्-कुर्वन्तम् / अतन्द्रितम्-तन्द्रा आलस्यं निद्रा वा सञ्जाताऽस्येति तन्द्रितः, न तन्द्रितोऽतन्द्रितः, अनलस इत्यर्थः, तन्तथा / खगाद्रिराजम्-खगाद्रेः वैताढ्यस्य राजा प्रभुः खगाद्रिराजस्तन्तथा विद्याधरेश्वरमितियावत् / “राजन सखेः” 7 / 3 / 106 // इत्यनेन अट् प्रत्ययः समासान्तः / क्रमाव-क्रमशः / निवार्य-निरुध्य / क्रमसेवनोन्मुखम्-क्रमयोश्चरणयोः सेवन सेवा क्रमसेवनम् तस्मिन् उन्मुख उत्सुकः क्रमसेवनोन्मुखस्तन्तथा / “चरणः क्रमणः पादः पदो ह्रिश्चलनः क्रमः" 2 / 280 // इत्यभि०चि० / चक्रे–कृतवान् इति // 42 // विराजिराजन्यजनस्य धोरणे-रणे-रणे दारुणरूपसम्पदः / कदाचिदस्या युवधैर्यलोपिन, जयं निशम्याजनि राजनिग्रहः // 43 // अन्वयः-रणेरणे, विराजिराजन्यजनस्य, धोरणे, दारुणरूपसम्पदः, अस्याः, कदाचित् , युवधैर्यलोपिनम् , जयम् , निशम्य, राजनिग्रहः, अजनि // 43 // वृत्तिः-रणे-रणे-वीप्सायां द्विर्भावात्प्रतियुद्धमित्यर्थः / विराजिराजन्यजनस्य-विरुद्धो राजते शोभते तच्छीले विराजी, "अजातेः शीले" 5 / 1 / 154 // इत्यनेन तच्छीले णिन् प्रत्ययः, स चासौ राजन्यजनः क्षत्रियलोकः विराजिराजन्यजनस्तस्य तथा / "क्षत्रं तु क्षत्रियो राजा राजन्यो बाहुसम्भवः" 33527 / इत्यभि०चि० / धोरणे-नियमे / दारुणरूपसम्पद:-रूपं स्वरूपञ्च सम्पद सम्पत्तिश्च रूपसम्पदौ, दारुणे रूपसम्पदौ यस्याः सा दारुणरूपत् तस्यास्तथा / अस्या:-भगवच्छान्तिनाथसम्बन्धिन्याः प्रजाया इति शेषः / कदाचित-जातु / कस्मिंश्चित्समये इति यावत् / युवधैर्यलोपिनं