________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे दरादरादाऽऽश्रितकन्दरान्तरा, निरन्तरायस्थितया तया नगे / दिनानि हीनानि समान्य मान्यमा-विभावरीभिर्बिभरांबभूविरे // 40 // अन्वयः-दरादरात् , आश्रितकन्दरान्तरा, निरन्तरायस्थितया, तया, नगे, अमान्यमा-विभावरीभिः, समानि, हीनानि, दिनानि, बिभरांबभूविरे // 40 // वृत्तिः-दरादरात्-दरो भयश्च अदरोऽभयश्च दरादरस्तस्मात्तथा / “भयं भी तिरातङ्क आशङ्का साध्वसं दरः" 2 / 215 / / इत्यभि० / अथवा दराव-अराव इतिच्छेदः दराद् भयाद्धेतोः, अरावशीघ्राद / “अथ शीघ्रं त्वरितं लघुक्षिप्रमरं द्रुतम्” इत्यमरः। आश्रितकन्दरान्तरा-कन्दरायाः दऱ्या अन्तर्मध्यम् कन्दरान्तः, आश्रितमधिष्ठितं कन्दरान्तर्यया तया तथा / “दरी स्यात् कन्दरः" 4 / 69 / इत्यभि०चि०। निरन्तरायस्थितया-निर्गतोऽन्तरायो विघ्नो यस्मात्तन्निरन्तरायं यथास्यात्तथा स्थिताऽवस्थिता निरन्तरायस्थिता तया तथा "श्रोणीभारादलसगमना स्तोकनम्रास्तनाभ्याम्" इत्यत्र स्तोक नम्रा स्तोकनम्रति क्रियाविशेषणवाचकपदेन समासदर्शनाव / तया-प्रजया। नगे-पर्वते / अमान्यमाविभावरीभिः-अमाया अमावस्याया विभावो रात्रयः अमाविभावर्यः, अमानिन्यो मानरहिताश्च ता अमाविभावोऽमान्यमाविभावर्यस्ताभिस्तथा / समानि-तुल्यानि / हीनानि-निष्प्रमाणि / दिनानि-दिवसाः। बिभरांबभूविरे-दधिरे / धृतानीति यावत् // 40 // स्वकान्तिकीर्तिव्रजमौक्तिकस्रजः, स्वतो गुणं योजयताऽशुगानुगम् / जिनेन को-दण्डकरण सानुगं, नृपं समुद्दिश्य गुणो न योजितः // 41 // अन्वयः-स्वकान्तिकीर्तिव्रजमौक्तिकस्रजः, गुणम् , स्वतः, योजयता, दण्डकरण, जिनेन, आशुगानुगन् , सानुगम् , नृपम् , समुद्दिश्य, कः, गुणः, न, योजितः // 41 // वृत्तिः-स्वकान्तिकीर्तिब्रजमौक्तिकस्रजः-स्वस्य आत्मनः कान्तिः सौन्दर्यम् , स्वकान्तिः, तस्याः कीर्तिर्यशः स्वकान्तिकीर्तिः, तस्या ब्रजः, समूहः स्वकान्तिकीर्तिव्रजः, स्वसौन्दयविषयकीर्तिसमूह इत्यर्थः / स एव शुभ्रत्वान्मौक्तिकस्रक मौक्तिकमाला स्वकान्तिकीर्तिव्रजमौक्तिकस्रक् तस्यास्तथा / गुणम्-दोरकम् / स्वतः-स्वयमेव / योजयता-सम्बन्धतया / दण्डकरेण-दण्डः करे यस्य स दण्डकरस्तेन तथा / पाणौ राज्यदण्डं धारयतेत्यर्थः। जिनेन-अर्हता, भगवता शान्तिनाथेनेत्यर्थः / आशुगानुगम्-आशुशीघ्रं गच्छन्तीत्याशुगा बाणाः,ते अनुगा अनुगमनशीला यस्य स आशुगानुगस्तन्तथा। "आशुगो मारुते बाणे” इति मेदिनी / सानुगम्-सार्नु पर्वतशृङ्गमनुगच्छतीति सानुगस्तन्तथा / पर्वतशृङ्गस्थमित्यर्थः / यद्वा अनुगच्छन्तीत्यनुगा अनुचराः, सेवका इति यावद तैः सहितः सानुगस्तन्तथा / अथवा जिनेश्वरकरीकगुणकर्मकयोजनक्रियाविशेषणवाचकंतया पदमिदमुपस्थयम् /