________________ 104 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे साम्प्रतमपि साऽभूदिति चित्रम् / 'रङ्गः स्यान्नृत्ययुद्भवो'रित्यनेकार्थः / च-पुनः / द्विषः-शत्रोः / क्षमाभृत:-क्षमा क्षितिं झान्ति च बिभर्तीति क्षमाभृन्नृपस्तस्य, पराजितस्यास्य क्षमाधारकत्वादिति / सिंहासनभः-सिंहानामासनं यत्र तत् सिंहासनं गुहा दरीतियावद तञ्च भूः सिंहासनभूः, गिरिगह्वरस्थानमितियावत्, 'भूस्तु भूमिरिव क्षिती, स्थाने चे' त्यनेकार्थः / पूर्व तु प्रतिपक्षिणो भूपस्य राजसिंहासनावस्थानमभूदधुनात्वनन्तरोक्तं तदिति / समीहिताय एव-उभयमपि उभयोः समीचीनेप्सितकृते खलु समभवत् / यद्वा समी सशयोरैक्यात् शमी शिम्बीवृक्षः ( खिजडीतिभाषायाम् ) 'शमी द्रभेदे वल्गुल्यां शिम्ब्या' मित्यनेकार्थः, हिताय श्रेयसे / प्रागराज्यस्थितौ शमी शमवान हितायासीदधुना पुनः शमीपादप इति / अभत-समभवत् / अस्याः-पुरोवर्तिन्याः / भुव:-पृथिव्याः, अखण्डषट्खण्डभरतभूमेरितियावत् / चिरोदयी-चिरमुन्नतिभाग् / सः-प्रसिद्धः / महीपतिः-चक्रवर्ती श्रीशान्तिनाथो भगवान् / महत्-विपुलम् , उर्विति यावत् / रहस्यम्-गोप्यम् , अकलनीयमितियावत् / अभूदित्यत्राप्यन्वेयमिति // 36 // अहो ! अहोभिर्महिमोहिमागमे, प्रपद्यते द्योतिभिरन्वहं यथा / तथा महोभिर्गरिमारिमारणाद्, रणादवाप्यस्य समं स्वसेनया // 37 // अन्वयः-अहिमागमे, अन्वहम् , घोतिभिः, अहोभिः, यथा, महिमा, प्रपद्यते, तथा, रणात् , अरिमारणात् , स्वसेनया, समम् , अस्य, महोभिः, गरिमा, अवापि, अहो // 37 // , वृत्तिः-अहिमागमे-हिमस्य शैत्यस्य आगम आगमनं सम्प्राप्तिरिति यावदत्रासौ हिमागमो हेमन्तः, अविद्यमानो हिमागमो हेमन्तोऽत्रेत्यहिमागमः / वसन्तर्ताविति / अन्वहम्-प्रतिदिनम् / योतिभिः-द्योतः प्रकाशोऽस्त्येषामिति द्योतीनि “अतोऽनेकस्वरात्" 7 / 2 / 6 // इत्यनेन मत्वर्थे इन् प्रत्ययः / अहोभि:-दिवसैः / “घस्रो दिनाहनी वा तु क्लीवे दिवसवासरौ” इत्यमरः / यथा-येन प्रकारेण / महिमा-महत्वम् , दीर्घतेतियावत् / प्रपद्यते-समवाप्यते / तथा-तेन प्रकारेण / रणात-युद्धात्, युद्धहेतोरित्यर्थः / अरिमारणात्-शत्रुविनाशनात् / स्वसेनया-स्वस्य आत्मनः सेना कटकं स्वसेना निजकटकमित्यर्थः तया तथा / समम्-सह / अस्य-सेनानायकस्य भगवतः श्रीशान्तिनाथस्य / महोभिः-तेजोभिः। “मह उत्सवः तेजसोः" इति मेदिनी / गरिमा-गौरवम् गुरुतेति यावत् / अवापिसम्प्रापि / समधिगत इति यावत् / अहो-आश्चर्ये, वितर्के वाऽव्ययम् / / 37 // गृहोन्मुखीं भूरिदिनैर्यियासती-मभिप्रपेदे प्रति तां स्मरार्दिताम् / नृपोऽनुकम्पां चलनेऽतिगौरवात्, ततो गिरेः प्रापदुपत्यकां त्यकाम॥३८॥