________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [ 103 नीति यावत् / चक्रिणि-चक्रं राष्ट्रं सैन्यं वा, तन्त्रत्वादुभयं वाऽस्त्यस्येति चक्री, चक्रवर्तीत्यर्थः, सार्वभौम इति यावत् / “चक्रः कोके पुमान् क्लीवं ब्रजे सैन्यरथाङ्गयोः राष्ट्र-” इतिमेदिनी / अद्भुता-आश्चर्यकारिणी, अद्भुतमाश्चर्यमस्ति कार्य्यत्वेन यस्याः सा तथा “अभ्रादिभ्यः" 7 / 2 / 46 / इति मत्वर्थे अः प्रत्ययः / सविभ्रमा-विभ्रमेण विलासेन हावभावादिना सहिता सविभ्रमा, बहुव्रीहिसमासः, सह शब्दस्य सादेशश्च / पतिविनाशेऽपि जाप्रत्स्मरदशा विभ्रमाद्याकलनादाश्चर्यकारित्वमिति भावः / अभवत-संवृता, समजायतेति यावत् // 34 // छलत्स्खलत्पाद-पयोगतो वने, नलादपि प्राप्तभयो भयोज्झितः / अदर्शि संगोप्य कदाप्यवीक्षितः, प्रमीलया बाधनलीलया निजः // 35 // अन्वयः-छलत्स्वलत्पादपयोगतः, वने, नलात् , अपि, प्राप्तभयः, भया, उज्झिता, अवीक्षितः, प्रमीलया, बाधनलीलया, निजा, सङ्गोप्य, कदापि, अदर्शि // 35 // ___वृत्तिः-छलत्स्खलत्पादपयोगतः-पयसे जलाय गतः पयोगतः, पादेषु प्रत्यन्तपर्वतेषु गतः पादपयोगतः छलन्-व्यपदिशन् चासौ स्खलन् स्खलनामादधत् छलस्खलन् स चासौ पादपयोगतः छलत्स्खलन्पादपयोगतः, छलेन व्याजेन स्खलन्पादं यथास्यात्तथा पयसे जलाय पयसि जले वा गतस्तथा। निजजनस्य विशेषणम् / वने-कानने / नलात-स्वस्थानात् , अनलात् इतिच्छेदो वा वढेरित्यर्थः / अपि-खलु / प्राप्तभयः-प्राप्तमासादितं भयं भीतिर्येन स तथा / भया-दीप्त्या / उज्झितः-त्यक्तः / अवीक्षितः-अविमृष्टः / प्रमीलया-निद्रया / बाधनलीलया-दुःखलीलया / निज:-आत्मीयः / जनः इति शेषः / निजैरिति च शेषः / सङ्गोप्य-संयम्य, गोपयित्वेति यावत् / कदापि-कस्मिँश्चित्समये / अदर्शि-दृष्टः // 35 // अभूत् सुरङ्गेक्षणता रिपुस्त्रियो, द्विपश्च सिंहासनभूः क्षमाभृतः / समीहिता-यैव भुवश्चिरोदयी, रहस्यमस्याः स महन्महीपतिः // 36 // __ अन्धयः-रिपुस्त्रियः, सुरङ्गेक्षणता, च, द्विषः, क्षमाभृतः , सिंहासनभूः, समी, हिताय, एव, अभूत्, अस्याः , भुपः, चिरोदयी, सः, महीपतिः, महत् , रहस्यम् , ( अभूत् , ) // 36 // ___ वृत्तिः-रिपुस्त्रियः-शत्रुरमण्याः। सुरङ्गेक्षणता-सरत्यनया सुरङ्गा गूढमार्गो भूमिमध्यवर्ती 'सतेः सुर्च' ( उ० 108 ) इत्युङ्गः, सुरङ्गा सुरुङ्गा चैकार्थी शब्दस्तोममहानिधिवचनात् / 'सुरुङ्गा तु सन्धिला स्याद्, गूढमार्गो भुवोऽन्तरे' 4 / 51 / इत्यभि०चि० / सुरङ्गाया ईक्षणमवलोकनं सुरङ्गक्षणं तस्य / भावः सुरङ्गेक्षगता / प्रागपि रिपुराजरमण्याः शोभननृत्यभूमिदर्शनतात्मिका सुरङ्गेक्षणताऽऽसीद