________________ 102 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे स्थितिः / भवेत्-जायेत / सुप्तिः-स्वापः / याम्-अवस्थाम् / जनदर्शनातिथिम्-जनस्य लोकस्य दर्शनम् दृष्टिर्जनदर्शनम तस्य अतिथिर्गोचरो जनदर्शनातिथिस्तान्तथा / न-नहि / करोति-सम्पा दयति // 32 // निमीलितादक्षियुगाच निद्रया, नलात्प्रणष्टारिवधूजनेन सः / अवीक्षितोऽपि क्षितिशायिनेक्षितः, स्मरादिवोच्चैः करवालचालकः // 33 // अन्वयः-निद्रया, निमीलितात् , अक्षियुगात् , च, नलात् , क्षितिशायिना, प्रणष्टारिवधूजन, अवीक्षितः, अपि, उच्चैः, स्मरात् , इव, करवालचालकः, सः, इक्षितः // 33 // वृत्तिः-निद्रया-प्रमीलया, संवेशेनेति यावत् / निमीलितात्-संमुद्रितात् / अक्षियुगात्नेत्रद्वयात् / च-पुनः / नलात्-पर्वतादिना विषमस्थानात् / क्षितिशायिना-भूतलतल्पकारिणा / प्रणष्टारिवधूजनेन-प्रणष्टाः प्रकर्षेण नाशमासादिताश्च ते अरयो रिपवः प्रणष्टारयस्तेषां वधूजनः रमणीवर्गः प्रणष्टारिवधूजनस्तेन तथा / अवीक्षितः अनवलोकितः / अपि-सम्भावनायाम् / उच्चैःअतिशयेन / स्मरात्-ध्यानात् कन्दर्पाच्च / इव-यथा / करवालचालक:-करवालस्य खड्गस्य चालकः संचालकः, बालाः केशा बवयोरभेदात् तेषां चालको बालचालकः, करेण हस्तेन बालचालकः करवालचालकः, कन्दर्पात् कचाहतत्पर इति परपक्षीयचतुर्थपादसमुदितोऽर्थः / सः-सेनानायकः / ईक्षितः-अवलोकितः // 33 // परासुताप्तावपि नायकेऽभवद्, हृदोऽपि बाह्येन्द्रियमौनमुद्रितात् / सविभ्रमा चक्रिणि वैरिणो वधूः, स्मरेतिविस्मेरदशाप्यथाद्भुता // 34 // अन्वयः-अथ, परासुताप्तौ, अपि, वैरिणः, वधूः, स्मरे, अतिविस्मेरदशा, बाह्यन्द्रिय, मौनमुद्रितात् , अपि, हृदः, नायके, चक्रिणि, अद्भुता, सविभ्रमा, अभवत् , // 34 // वृत्तिः-अथ-अनन्तरम् / परासुताप्तौ-परा गता असवः प्राणा अस्येति परासुः प्राप्तमृत्युस्तस्य भावः परासुता, तस्या आप्तिः प्राप्तिः परासुताप्तिस्तस्यां तथा / मृत्युत्वप्राप्तावित्यर्थः / अपिसम्भावनायाम् / स्वपतेरितिशेषः / वैरिणः-प्रतिपक्षस्य भूपतेः / वधूः-सीमन्तिनी रमणीति यावत् / स्मरे-मदने / अतिविम्मेरदशा-अतिविस्मेरा प्रफुल्ला जाग्रतीति यावत् दशाऽवस्था यस्याः सा तथा / जाग्रद्दशेति यावत् / बाजेन्द्रियमौनमुद्रितात-बाह्यानि च तानीन्द्रियाणि करणानि वाह्येन्द्रियाणि तेषा मौनम्-स्वविषयप्रहणाभावो बालेन्द्रियमौनम् तेन मुद्रितम्-रूपादिलक्षण स्वविषयप्रहणासक्तम् बाह्येन्द्रियमौनमुद्रितम् तस्मात्तथा / अपि-सम्भावनायाम् / हृद:-मनसः। नायके-प्रभौ, स्वामि