________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [101 शत्रवो नलस्थितारयस्तेषां' प्रतिरोधनम् प्रतिरोधो नलस्थितारिप्रतिरोधनम् तस्मात्तथा / अवरोधप्रतिबन्धनक्रियाम्-अवरोधस्य संरोधस्य प्रतिबन्धनम् प्रतिबन्धो यत्र सा चासौ क्रिया व्यापारोऽवरोधप्रतिबन्धनक्रिया तान्तथा / क-कुत्र / न-नहि / पश्यति स्म-अपश्यत् , अपि सर्वत्रैवापश्यदिति भावः / / 30 // परैः कृता या नलदुर्गताकृतिर्धनैर्जनैः सैव च दुर्गताकृतिः। अदृष्टमप्यर्थमदृष्टवैभवा-दवाप्य सेनापतिनो व्यधीयत // 31 // अन्वयः-या, परः, नलदुर्गताकृतिः, कृता, अदृष्टवैभवात् , अदृष्टम् , अपि, अर्थम् , अवाप्य, सेनापनिना, सा, एव, धनैः, च, जनैः, दुर्गताकृतिः, व्यधीयत // 31 // वृत्तिः-या सर्व वाक्यं सावधारणं भवतीति नियमात् यैव चमूरित्यर्थः / परैः-अन्यः, शत्रुभिरिति यावत् / नलदुर्गताकृति:-नलेन पर्वतादिस्थविषमस्थानादिना दुर्गता दुःस्था आकृतिः स्वरूपं यस्याः सा तथा / कृता-विहिता / अदृष्टवैभवात-धर्माधर्मसामर्थ्यात् / अदृष्टम्-अनवलोकितम् , अननुभूतचरमिति यावत् / अपि-सम्भावनायमव्ययम् / “अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये” इति मेदिनी / अर्थम्-वस्तु / अवाप्य-सम्प्राप्य, समधिगम्येति यावत् / सेनापतिनासेनानायकेन / स्थितेनेति पूर्वशेषः / सा-पूर्वप्रदर्शिता चमूः। एव-खलु / धनैः-वित्तैः / च-पुनः / जनैः-लोकैः / दुर्गताकृतिः-दुर्गता दुरवगता कृतिः यस्याः सा तथा / व्यधीयत-समपाद्यत, अक्रियतेति यावत् // 31 // .. नलोदयस्याप्यनलोदयादभू-दभूतपूर्वा स्थितिराततेजसा / भवेदवस्थेयमहो ! क्षितौ न यां, करोति सुप्तिर्जनदर्शनातिथिम् // 32 // अन्वयः-नलोदयस्य, अपि, आप्ततेजसा, अनलोदयात् , अभूतपूर्वा, स्थितिः, अभूत् , अहो !, क्षिती, इयम् , अवस्था, भवेत् ?, सुप्तिः, याम्, जनदर्शनातिथिम् , न, करोति // 32 // वृत्तिः–नलोदयस्य-नलस्य नडाख्यतृणविशेषस्य उदयोऽभ्युदयो नलोदयस्तस्य तथा। अपिसम्भावनायाम् / आप्ततेजसा-आप्तस्य अनुभवेन वस्तुतत्त्वस्य कार्येन निश्चयवतो नान्यथा वादिनस्तेजः प्रतापः प्रभावो वा आप्ततेजः, तेन तथा / अनलोदयात्-अनलस्य वढेरुदय उत्पत्तिरनलोदयस्तस्मात्तथा / अभूतपूर्वा-असञ्जातपूर्वा / स्थिति:-अवस्था / अभत्-अभवत् / अहो-प्रश्ने, वितर्केवाऽव्ययम् / “अहो प्रश्ने वितर्के च” इति मेदिनी। क्षितो-पृथिव्याम् / इयम्-एतादृशी / अवस्था