________________ 100 ] श्रीजैननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे स्तेजो यस्य सोऽभ्युदयन्महाः, स चासौ महांश्चासावनलो महानलोऽभ्युदयन्महोमहानलस्तस्य तथा / च-पुनः / स्वस्य-आत्मनः / सख्यम्-रूपसाम्यम , मित्रतां च / ईक्षते स्म-ऐक्षत, समवलोकयदिति यावत् // 28 // मनोरथेन स्वपतीकृतं नल, वनाद्रिदुर्गस्थितमारुरुत्सुकः / समुत्सुकः पञ्चमचक्रभृत् पुनः, खगाचलेऽभ्यागमनेच्छयाऽचलत् // 29 // . अन्वयः-मनोरथेन, वनाद्रिदुर्गस्थितम् , स्वपतीकृतम् , नलम् , आरुरुत्सुकः, पुनः, खगाचले, अभ्यागमनेच्छया, समुत्सुकः, पश्चमचक्रभृत्, अचलत् // 29 // वृत्तिः-मनोरथेन-मनसश्चित्तस्य रथः स्यन्दनमिव मनोरथोऽमिलाषस्तेन तथा / वनाद्रिदर्गस्थितम-वने कानने अद्रिः पर्वतो वनाद्रिस्तत्र दुर्ग कोट्टं वनाद्रिदुर्गम् तत्र स्थितो अवस्थितो वनाद्रिदुर्गस्थितस्तन्तथा / स्वपतीकृतम्-न विद्यते स्व आत्मा पतिः स्वामी यस्य सोऽस्वपतिः, अस्वपतिः स्वपतिः कृतः स्वपतीकृतस्तन्तथा। नलम्-स्थानविशेषम् , नलाख्यतृणबहुलमितियावद / आरुरुन्सुकाआरोदुमिच्छत्यारुरुत्सति आरुरुत्सतीत्यारुरुत्सुः, “सन् भिक्षाऽऽशंसोरुः" 5 / 2 / 33 // इत्यनेन'उ' प्रत्ययः / आरुरुत्सुरेव आरुरुत्सुकः ‘स्वार्थे कप्रत्ययः।' पुनः-किञ्च / खगाचले-खे गगने गच्छन्तीति खगा विद्याधरास्तेषामचलः पर्वतः खगाचलो वैताव्यस्तत्र तथा / अभ्यागमनेच्छया-आजिगमिषया / समुत्सुक:-इष्टार्थोयुक्तः / “इष्टार्थोद्युक्त उत्सुकः” इत्यमरः / पञ्चमचक्रभृत्-पञ्चमचक्रवर्ती / भगवाञ्छान्तिनाथ इति शेषः / अचल-प्रातिष्ठत // 29 // पुरलश्चच्चारुचमूपतेश्चमू-निशि क सा न स्वपती स्म पश्यति / नलस्थितारिप्रतिरोधनाद् वन-ग्रहेऽवरोधप्रतिबन्धनक्रियाम् // 30 // अन्वयः-पुरश्चलच्चारुचमूपतेः, सा, चमः, निशि, स्वपती, वनग्रहे अपि, नलस्थितारिप्रतिरोधनात् , अवरोधप्रतिवन्धनक्रियाम् , क, न, पश्यति स्म // 30 // वृत्तिः-पुरश्चलश्चारुचमूपतेः-चारुः शोभनश्चासौ चमूपतिः सेनानायकः चारुचमूपतिः, पुरोऽग्रतश्चलन गच्छन् पुरश्चलन , पुरश्चलन् चासौ चारुचमूपतिः पुरश्चलच्चारुचमूपतिस्तस्य तथा / ता-प्रसिद्धा / चमूः-सेना / “वाहिनी पृतना सेना बलं सैन्यमनीकिनी / वरुथिनी चमूश्चक्रं स्कन्धावारः' 3410 / / इत्यभि० चि० / निशि-रात्रौ / स्वपती-शयाना / वनग्रहे-अरण्यस्वीकारेऽपि / नलस्थितारिप्रतिरोधनात्-नले पर्वतादिविषमस्थाने स्थिता अवस्थिता नलस्थितास्ते च ते अरयः