________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्ग: [ 99 स विश्वसेनात्मजशान्तिचक्रभृत्, समाजगामात्र जयेन भारते / इति स्म सो कारुवरेण लेखितं, जिनेशनामाभिननाम देवता // 27 // अन्वयः-सः, विश्वसेनात्मजशान्तिचक्रभृत् , जयेन, अत्र, भारते, समाजगाम, इति, कारुवरेण, लेखितम् , जिरेशनाम, सा, देवता, अमिननाम, स्म // 27 // वृत्तिः-सः-प्रसिद्धः / विश्वसेनात्मजशान्तिचक्रभृत-शान्तिः शान्तिनाथः, शान्तिश्चासौ चक्रभृत् शान्तिचक्रभृत्, विश्वसेनस्य तदाख्यहस्तिनापुरराजस्य आत्मजस्तनयो विश्वसेनात्मजः स चासौ शान्तिचक्रभृत् विश्वसेनात्मजशान्तिचक्रभृत् / जयेन-विजयेन उपलक्षित इति शेषः / अत्रअस्मिन् / भारते-भारतवर्षाख्यदेशे / समाजगाम-समागतः / इति-इत्येवंप्रकारेण / कारुवरेणकारुषु शिल्पिषु वरः श्रेष्ठः कारुवरस्तेन तथा / “कारुस्तु कारी प्रकृतिः शिल्पी" 3 / 563 / / इत्यभि०चि० / लेखितम्-अक्षरात्मतया विन्यासितम् / जिनेशनाम-जिनेषु सर्वज्ञेषु ईशः प्रभुर्जिनेशो जिनवरस्तस्य नामभिधानं जिनेशनाम / “आख्याह्ने अभिधानं च नामधेयश्च नाम च” इत्यमरः / सा-प्रसिद्धा / देवता-दैवतम् / अभिननाम स्म-पूर्व सर्वतोभावेन प्रणनाम / 'स्मातीते' इत्यमरः / अत्र स्मेत्यस्य नहि धातुना योग इति 'स्मे च वर्तमाना' / 5 / 2 / 16 / इत्यस्य नावकाशः // 27 // कृतार्हद विधिनाऽधिनायकः, स्थितोऽष्टमे स्पष्टतयाऽष्टमङ्गलः / हरेः स्म तत्राभ्युदयन्महो महा-ऽनलस्य च स्वस्य च सख्यमीक्षते // 28 // अन्धयः-अष्टमङ्गलः, अधिनायकः, कृतार्हद विधिना, स्पष्टतया, अष्टमे स्थितः, ( सन् ) तत्र, हरेः, च, अभ्युदयन्महोमहानलस्य, च, स्वस्य, सख्यम् , ईक्षते स्म, // 28 // वृत्तिः–अष्टमङ्गलः-अष्टौ, अष्टत्वसंख्याकानि मङ्गलानि स्वस्तिकादीनि यस्य सो ऽष्टमङ्गलः / अधिनायक:-अधि-ईश्वरश्वासौ नायकः सेनानेता अधिनायकः / कृतार्हद विधिना-अर्हतो जिनेश्वरस्य अर्चा पूजा अर्हदर्चा तस्या विधिविधानम् अहंदर्चाविधिः, कृतो विहितोऽहंदर्चाविधिः कृताहदर्चाविधिस्तेन तथा / अत्र “कृतार्हद! विधिनाऽधिनायकः” इत्येवं पाठः साधीयान् प्रतिभाति, कृता विहिता अहंदर्चा जिनेश्वरपूजा येन स कृतार्हदः" इति प्रथमान्तं पदमधिनायकविशेषणतया समुपस्थापनीयम् / विधिना इति च पृथक् पदमनुसन्धेयम् / स्पष्टतया-व्यक्तरूपेण / अष्टमेदिनत्रयव्यापकोपवासात्मकव्रतविशेषे / स्थित:-अवस्थितः / (सन् ) तत्र-तस्मिन् स्थले, तस्मिन् काले वा / हरेः-इन्द्रस्य / “हरिश्चन्द्रार्कवाताश्वशुकभेकयमादिषु / कपौ सिंहे हरेऽजेऽशौ शके लोकान्तरे पुमान्" इति मेदिनी / च-पुनः / अभ्युदयन्महोमहानलस्य-अभ्युदयत्-समुन्नयत् मह