________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [ 97 वृत्तिः–भयेन-भीत्या, चक्रवर्तिसेनापतिशौण्डीर्य्यवीर्य्याद्यवलोकनजनितस्वाभाविकसाध्वसेनेति यावत् / हये-अश्वे / रथे-स्यन्दने / अपि-सम्भावनायाम् / भग्ने-आमर्दिते, सञ्चूर्णिते इति यावत् / पथे-मार्गे / “वाटः पथश्व मार्गश्च" इति त्रिकाण्डशेषः / विचक्रे-विनष्टं चक्रं रथाङ्ग यस्य स विचक्रस्तस्मिंस्तथा / स्थिते-अवस्थिते / अवनिपे-अवनिं पृथिवीं पाति रक्षतीत्यवनिपस्तस्मिंस्तथा, प्रतिपक्षमहीपताविति यावत् / सेनापतिना-सेनाया अनीकिन्याः पतिः स्वामी, नायक इति यावद , सेनापतिस्तेन तथा / रसेन-वीर्येण / “रसो गन्धरसे जले / शृङ्गारादौ विषे वीर्ये” इति मेदिनी / निपातिते-विनाशिते, समुन्मूलिते इति यावत् / (सति ) अरिसेनया-प्रतिपक्षपक्षीयसैन्येनेत्यर्थः / चिराय-दीर्घकाले यावत् / “चिराय चिररात्राय चिरस्य च चिराञ्चिरम् / चिरेण दीर्घकालेऽर्थे" 6 / 168 / / इत्यभि० चि० / विमनायमानया-विमना दुर्मना इवाचरतीति विमनायमाना दुर्मनायमाना, अहृष्टचित्तेति यावत्, तया तथा / तस्थे-अवतस्थे स्थितमिति यावत् // 24 / / (पाठान्तरम् ) चमूपतिर्भूपतिराजसन्निधेः, प्रसाधयन् म्लेच्छपुराणि तद्धनैः / धनं ललौ, तत्प्रजयाऽपमानया, चिराय तस्थे विमनायमानया // 24 // अन्वयः-चमुपतिः, भूपतिराजसन्निधेः, म्लेच्छपुराणि. तद्धनैः, प्रसाधयन् , धनम् , ललो, तत् , अपमानया, प्रजया, चिराय, विमनायमानया, तस्थे // 24 // वृत्तिः-चम्पतिः-सेनानायकः / भूपतिराजसविधेः-भूपतीनां महीक्षितां राजा प्रभुः, भूपतिराजस्तस्य सन्निधिः सान्निध्यम् , सामीप्यमिति यावत् भूपतिराजसन्निधिस्तस्य तथा / म्लेच्छपुराणिम्लेच्छानां यवनादिप्रभृतिपामराणाम् पुराणि नगराणि म्लेच्छपुराणि तानि तथा / म्लेच्छः पामरभेदे च पापरक्तेऽपभापणे” इति मेदिनी / तद्धनैः तेषां म्लेच्छानां धनानि वित्तानि तद्धनानि तैस्तथा / प्रसाधयन्-मण्डयन , समलङ्कुर्वन्निति यावत् / धनम-वित्तम् , तदीयमिति शेषः / ललौ-गृहीतवान् / तत्-तस्माद्धेतोः / अपमानया-अपगतो विनष्टो मानश्चित्तोन्नतिर्यस्याः साऽपमाना, तया तथा / प्रजया-जनतया, लोकेनेति यावत् / चिराय-दीर्घकालमिति यावत् / विमनायमानयादुर्मनायमानया अहृष्टचित्तयेति यावत् / तस्थे-अवतस्थे / अवस्थितमिति यावत् / / 24 // प्रियं प्रियां च त्रिजगजयिश्रियौ, नरौ स्वरूपेण शचीपुरन्दरौ / ददर्श चक्री नमसोऽवतीर्य तौ, कृताञ्जली भूमिभुज प्रणेमतुः // 25 //