________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वृत्तिः–विक्रमात-पराक्रमाव, शक्तिसम्पदो वा / “विक्रमस्तु पुमान क्रान्तिमात्रे स्यात् शक्तिसम्पदि" इति मेदिनी / गरुत्मत:-गरुतः पक्षाः सन्त्यस्येति गरुत्मान गरुडस्तस्य तथा / (अरयःशत्रवः ) सर्पगणा:-पवनाशनसमूहाः / इव-यथा / सर्पोऽहिः पवनाशनः / 4 / 361 // इत्यभि०चि० / अस्य-राज्ञः / अरयः-शत्रवः / वेषान्तरम्-अन्यो वेषो वेषान्तरम् तत्तथा। "मयूरव्यंसकेत्यादयः" 3 / 1 / 116 // इत्यनेन समासः / विधाय-कृत्वा / मिषेण-व्याजेन / दूतद्विजवन्दिचारणा:-दूता दूत्यव्यापारपारङ्गमाश्च द्विजा ब्राह्मणाश्च वन्दिनो वन्दनशीलाश्च चारणा भटाश्च दूतद्विजवन्दिचारणाः / ( सन्तः ) यशः-वर्णवादम् , समज्ञामिति यावत् / पठन्त:-उच्चारयन्तः, प्रख्यापयन्त इति यावत् / परदेशम्-देशान्तरम् / ऐयरु:-गतवन्तः // 22 // कृताजयः केऽपि पराजयं ययु-भयं प्रपद्याद्रिमयुनिरामयम् / निपीय तत्कीर्तिकथामथानया-जहुर्मुहुस्ते मुमुहुर्भयादपि // 23 // अन्वयः-केऽपि, कृताजयः, पराजयम् , ययुः, भयम् , प्रपद्य, निरामयम् , अद्रिम् , अयुः, अथ, तत्कीर्तिकथाम् , निपीय, अनयान, जहुः, ते, भयात्, अपि, मुहुः, मुमुहुः // 23 // वृत्तिः केपि-कियन्तोऽज्ञातनामधेयाः। कृताजयः-अजन्त्यधिक्षिपन्त्यस्यामित्याजियुद्धम् / कृता-विहिता आजियुद्धं यैस्ते कृताजयः, कृतयुद्धा इत्यर्थः / पराजयम-भङ्गम् , पराभवमितियावत् / ययुः-प्राप्तवन्तः। भयम्-तदीयविक्रमादिजनितसन्त्रासम् / प्रपद्य-सम्प्राप्य / निरामयम्-निर्गत आमय उपतापो यस्मात्तन्निरामयं यथा स्यात्तथा / "आम आमय आकल्यमुपतापो गदः समाः" 3 / 127 / / इत्यभिधानचिन्तामणिः / अद्रिम-पर्वतम् / अयु:-प्राप्नुवन् / अथ-अनन्तरम् / तत्कीर्तिकथाम-कीर्तीनां यशसां कथा चर्चा कथनमिति यावत् , कीर्तिकथातस्य भगवतः शान्तिनाथस्य कीर्तिकथा तत्कीर्तिकथा तान्तथा / निपीय-सादरमाकर्ण्य / अनयान्-अनीतीः, अन्यायानिति यावत् / जहुः-तत्यजुः, त्यक्तवन्त इति यावत् / ते-कृताजयः पराजिताः सन्तो गिरि-गह्वरमाश्रिता जनाः / भयात-साध्वसात् / अपि-अवधारणार्थकमव्यम् / भयादेवेत्यर्थः / मुहुः-पुनः पुनः / “भूयोऽभीक्ष्ण पुनः पुनः / असकृन्मुहुः” 6 / 167 // इत्यभि०चि० / मुमुहुः-अमुह्यन् , मोहमापान्ना इति यावत् // 23 // भयेन भग्नेऽपि हये रथे पथे, स्थिते विचक्रेऽवनिपे निपातिते / रसेन सेनापतिनारिसेनया, चिराय तस्थे विमनायमानया // 24 // अन्वयः-भयेन, हये, रथे, अपि, भग्ने, पथे, विचक्रे, स्थिते, अवनिपे, सेनापतिना, रसेन, निपातिते, ( सति ) अरिसेनया, चिराय, विमनायमानया, तस्थे // 24 //