________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [ 95 नलस्य पृष्टा निषधागतो गुणान्, नृपेण दुर्गस्थरिपोर्विनिग्रहे / चरैर्निशम्यास्य परे शरण्यतां, प्रपेदिरेऽरण्यदशाविमोचनात् // 21 // (युग्मम् ) अन्वयः-अब्दात् , विनिर्गतः, चक्रवान्धवः, इव, अद्भुतचक्रबान्धवः, ततः अवतीर्य, दुर्गस्थरिपोः, विनिग्रहे, नृपेण, निषधागताः, नलस्य, गुणान् , पृष्टा, 'परे, अरण्यदशाविमोचनात् , अस्य, शरण्यताम् , प्रपेदिरे,' ( इति ) चरैः, निशम्य, स्फुरद्रुचिम्लेच्छजनप्रसाधने [ प्रशासने ], निदर्शनम् , नैषधम् , अभ्यषेचयत् , // 20-21 // वृत्तिः– अब्दात्-अपो जलानि ददातीत्यब्दो मेघः, तस्मात्तथा। विनिर्गत:-निःसृतः, बहिरायात इति यावत् / चक्रबान्धवः-चक्राणां चन्द्रिकाप्रियपक्षिविशेषाणां बान्धवः स्वजनः प्रिय इति यावत् चक्रबान्धवः चन्द्रः / इव-यथा / अद्भतचक्रबान्धवः-राष्ट्रस्य सेनाया वा बान्धवः स्वजनः चक्रबान्धवः, अद्भुत आश्चर्यजनकश्चासौ चक्रबान्धवोऽद्भुतचक्रबान्धवः, भगवाञ्छान्तिनाथश्चक्रवर्तीतियावत् / ततः-सरिद्वयसनाथिततमिस्रागुहायाः / अवतीर्य-प्रपार्य, बहिरागत्य / दुर्गस्थरिपो:दुर्गे कोट्टे तिष्ठतीति दुर्गस्थः स चासौ रिपुः शत्रुर्दुर्गस्थरिपुस्तस्य तथा, दुर्गादिविषमस्थानस्थितारातः / विनिग्रहे-विशेषेण निग्रहो दण्डो विनिप्रहस्तस्मिंस्तथा, सप्तम्या निमित्तत्वार्थकतया विनिप्रहनिमित्तमित्यर्थः / नृपेण-चक्रवर्तिना / निषधागता:-निषधायास्तन्नामककोशलदेशाश्रितनगऱ्या आगता निषधागताः, नरा इतिशेषः / नलस्य-नल इव नलस्तस्य, नलसदृशशक्तिशालिनः सेनानीविशेषस्य / गुणान्समरयोग्योपायान् / पृष्टा:-पर्यनुयोगमापादिताः / परे-शत्रवः / अरण्यदशाविमोचनात्-वनवासस्थितिवियोजनतः / अस्य-नलस्य / शरण्यताम्-शरणम् / प्रपेदिरे-प्राप्ताः / (इति-एवं भूतम् / ) चरैः-चरनरैः / निशम्य-समाकर्ण्य / स्फुरद्र चिम्लच्छजनप्रसाधने(प्रशासने)-विलसद्दीप्तिकानामुत्तराधभरतक्षेत्रवर्तिनामनार्यलोकानां नियन्त्रणे / अत्र प्रसाधने इत्यत्र प्रशासने इति सुरुचिकारि / निदर्शनम्-निदर्शनभूतम् , उदाहरणरूपम् / विशिष्टमितियावत् / यद्वा नितरां दर्शनं यस्य स तमिति, सदा चक्रिपार्श्वस्थमित्यर्थः। नैषधम्-निषधायाअयं नैषधस्तन्तथा / पूर्वदशितं नलम् / अभ्यषेचयत्अभिषिक्तवान् / अयं भावः निषधागतजनमुखतो नलानुरूप नलस्य विशिष्टगुणानाकर्ण्य चक्रवर्ती भरतोत्तरार्धवर्तिनो म्लेच्छमहीपतीन जेतुं तं सेनापतिमकार्षीदिति // 20 // 21 // विधाय वेषान्तरमस्य विक्रमा-न्मिषेण दूतद्विजवन्दिचारणाः / यशः पठन्तः परदेशमैयरुर्गरुत्मतः सर्पगणा इवारयः // 22 // अन्वयः-विक्रमात् , गरुत्मतः सर्पगणाः, इव, अस्य, अरयः, वेषान्तरम् , विधाय, मिषेण, दूतद्विजवन्दिचारणाः, ( सन्तः ) यशः, पठन्तः, परदेशम् , ऐयरुः // 22 //