________________ 94 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे - अन्वयः-पते !, तमिस्रान्तरम् , ईयुषः, पथः, बिभेभि, तत् , भिन्नम् , उदाहर, इति, वदन्ती, सा, स्त्री, मणिमण्डलत्विषा, अयनम् , समुद्योत्य, चक्रिणा, अभी, कृता, एव // 18 // वृत्तिः-पते-पाति रक्षत्यापद्भय इति पतिः स्वामी, नायक इति यावत् , तदामन्त्रणे तथा / तमिस्रान्तरम्-तमिस्राया गुहाया अन्तरं मध्यम् तमिस्रान्तरम् / गुहाभ्यन्तरमित्यर्थः। ईयुषः-प्राप्तवतः / पथः-मार्गात् / विभेमि-समुद्विजामि, भीता भवामीति यावत् / तत्-तस्मात् / भिन्नम्अन्यम् , पूर्वोक्तादतिरिक्तमिति यावत् / मार्गमितिशेषः / उदाहर-निदर्शय / इति एवं प्रकारेण / वदन्ती-निगदन्ती / सा-भीतिविह्वला प्रसिद्धा / स्त्री-रमणी, यशोमतीतियावत् / मणिमण्डलतिषामणिरत्नेन विहितानि मणिमण्डलानि तेषां त्विट् प्रभा मणिमण्डलत्विट तया तथा। अयनम्-मागम् / "अयनं सरणिर्मार्गोऽध्वा” 4 / 49 / / इति अभिधानचिन्तामणिः / समुद्योत्य-प्रकाश्य / चक्रिणा-चक्रवर्तिना, सार्वभौमेणेति यावत् भगवता शान्तिनाथेनेतिशेषः / अभी:-अभया, निर्भीकेति यावत् / कृता-विहिता / एव-अवधारणार्थकमव्ययम् / / 18 // / सरिद्वये वार्धकिनाऽऽद्यपद्यया, बलं समुत्तारयता नृपाज्ञया / जनेन यूनः स्तुवता तदास्पदे,सुखः कृतोऽध्वा हि गतागतोद्यताम् // 19 // अन्वयः-सरिद्वये, नृपाज्ञया, आद्यपद्यया, बलम् , समुत्तारयता, गतागतोद्यतान् , यूनः, स्तुवता, वार्धकिना, जनेन, हि, तदास्पदे, सुखः, अध्वा, कृतः // 19 // वृत्तिः-सरिदद्वये-सरितोस्तरङ्गिण्योर्द्वयं युगलम् सरिद्वयम् तस्मिँस्तथा तमिस्रागुहांगतोन्मग्नानिमग्नाभिधाननदीयुगल इति यावत्। नृपाज्ञया-नृपस्य राज्ञ आज्ञा निदेशो नृपाज्ञा तया तथा। आद्यपद्यया-आद्या प्रथमा चासौ पद्या पद्धतिर्माग इति यावत् , आद्यपद्या तया तथा / बलम्सैन्यम् / समुत्तारयता-पारयता / गतागतोद्यतान्-गतं गमनम् आगतमागमनम् , गतश्चागतञ्च गतागते तयोरुद्यताः प्रस्तुता गतागतोद्यतास्ताँस्तथा / यून:-तरुणान् / स्तुवता-प्रशंसता, वर्णयतेति यावत् / वार्धकिना-वार्धकिरत्नेन / जनेन-मनुष्येण मनुष्यगतिमनुभवता वार्धकिरत्नेनेतियावत् / हि-निश्चयेन / तदास्पदे-तञ्च तदास्पदं स्थानम् तदास्पदम् तस्मिँस्तथा / सुखः-सुखं शर्म सौख्यमिति यावदस्त्यस्मिन्निति सुखः / अध्वा-मार्गः / कृतः-विहितः // 19 // ततोऽवतीर्यादभुतचक्रवान्धवो, विनिर्गतोऽब्दादिव चक्रवान्धवः / स्फुरदूचिम्लेच्छजनप्रसाधने, निदर्शनं नैषधमभ्यषेचयत् // 20 //