________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्ग: [ 93 अन्वयः-क्यापि, त्रस्यति, तत्र, शात्रवे, भटः, कृताहवः, महाहवः, समापतत् , तत् जयात् , ऋते, मुदा, तदाकर्णनसज्जकर्णया, प्रजया, गिरौ, स्थितम् // 16 // वृत्तिः–क्वापि-कुत्रचितस्थले / त्रस्यति-समुद्विजति, साध्वसमादधाने इति यावत् / तत्रतस्मिन् / शात्रवे-प्रतिपक्षे, शत्राविति यावत् / भटैः-योधैः। कृताहवः-कृतो विहित आहवो युद्धार्थमावानं यस्मिन् स कृताहवः / महाहवः-आहूयन्ते जना अस्मिन्नित्याहवो युद्धम् , महान् अतिशयितश्वासौ आहवो महाहवः “सन्महत्परमोत्तमोत्कृष्टं पूजायाम्” 3 / 1 / 107 // इत्यनेन समासः। समापतत्सम्प्रावर्तत, समजायतेति यावत् / तत-तस्माद्धेतोः। जयात-विजयात् / ऋते-विना / “वर्जने त्वन्तरेणर्ने हिरुग्नाना पृथग् विना” 6 / 163 // इत्यभि०चि० / मुदा-हर्षेण / तदाकर्णनसजकर्णयातस्य जयशब्दस्य आकर्णनं श्रवणं तदाकर्णनम् तस्मिन् सज्जौ तत्परौ कर्णौ श्रोत्रे यस्याः सा तदाकर्णनसज्जकर्णा तया तथा / प्रजया-जनेन / गिरौ-पर्वते / स्थितम्-अवस्थितम् , न्युषितमिति यावत् // 16 // स्मरात्परासोरनिमेषलोचनाद्, वरं तमिस्राध्वनि लब्धवानयम् / शकादिकम्लेच्छजनैः कृताश्रयं, सुनिर्भयं साधयति स्म तत्त्रयम् // 17 // अन्वयः-स्मरात् , परासोः, अनिमेषलोचनात् , तमिस्राध्वनि, वरम् , लब्धवान् , अयम् , शकादिकम्लेच्छजनैः कृताश्रयम् , सुनिर्भयम् , तत्त्रयम् , साधयति स्म // 17 // वृत्तिः-स्मरात-स्मरणाद्धेतोः, तत्सम्बन्धिनानाविध गुणगणानुध्यानादिति यावत्। परासोःपराः श्रेष्ठा प्रकृष्टा इति यावदसवः प्राणा अर्थाद्वलं यस्य स परामुः, अतिशयितानिर्वचनीयसामर्थ्य'विशेषवान इत्यर्थः, तस्मात्तथा / अनिमेषलोचनात-न निमेषो निमीलनं ययोस्ते, अनिमेषे लोचने नयने यस्य सोऽनिमेषलोचनस्तस्मात्तथा। तमिस्राध्वनि-तमिस्राया गुहाया अध्वा मार्गस्तमिस्राध्वा तस्मिँस्तथा / वरम्-अभीप्सितम् / लब्धवान्-समधिगतवान् , प्राप्तवानिति यावत् / अयम्-सेनापतिः, महामहिमशाली भगवान्छान्तिनाथस्य सेनानीरत्नमितियावत् / शकादिकम्लेच्छजनैः-शकादिकाः शकप्रधानाश्च ते म्लेच्छा यवनादयः शकादिकम्लेच्छजनास्तैस्तथा / कृताश्रयम्-विहितसंश्रयम् , कृतावस्थानमिति यावत् / सुनिर्भयम्-सु अतिशयेन निर्गतं भयं भीर्यस्मात् तत् सुनिर्भयं सुनिर्भीक यथास्यात्तथा / तत्त्रयम्-खण्डत्रयम् / साधयति स्म-प्राप्नोत् , अधिकरोति स्मेति यावत् // 17 // पथः तमिस्रान्तरमीयुषः पते !, बिभेमि तभिन्नमुदाहरेति सा / वदन्त्यभीःस्त्री मणिमण्डलत्विषा-ऽयनं समुद्योत्य कृतैव चक्रिणा // 18 //