________________ 92 ] श्रीजननषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे धने जने वा कृतरोधने भटै-स्तृणेऽपि तन्व्या नलनामनि श्रुते / घनेऽपि च स्थातुमधीरया रयात्, तया तदादेशदशाऽप्यधीयत // 14 // अन्वयः-भटैः, कृतरोधने, धने, वा, जने, (सति) तन्त्र्या, नलनामनि, तृणे, अपि, श्रुते, घने, स्थातुम् , अधीरया, च, तया, रयात् , तदादेशदशा, अपि अधीयत // 14 // . वृत्तिः-भट:-योधैः, वीरैरिति यावत् / कृतरोधने-कृतं विहितं रोधनमवरोधो यस्य तत् कृतरोधनम् तस्मिँस्तथा / कृतापहारे इतियावत् / धने-वित्ते / वा-समुच्चये / “वा स्याद्विकल्पोपमयोर्वितर्के पादपूरणे / समुच्चये च” इति मेदिनी / जने-लोके / लोको जनः प्रजा" 3 / 165 / / इत्यभि० चि० / (सति ) तन्व्या-कृशया। नलनामनि-नलाख्ये / तृणे-शष्ये / अपि-सम्भावनायाम् / श्रुते आकर्णिते / घने-सान्द्रे / वने इतिशेषः / अपि-सम्भावनायाम् / स्थातुम्-अवस्थातुम् , निवसिंतुमितियावत् / अधीरया-धैर्याभाववत्या / च-समुच्चये / तया-उपत्यकास्थायिनृपाल्या / रयात्वेगात्, सत्वर मिति यावत् / तदादेशदशा-तस्य भगवतः शान्तिनाथस्य / आदेशस्तदादेशस्तस्य दशाऽवस्था तदादेशदशा / अपि-सम्भावनायाम् / अधीयत-अधारि // 14 // पराक्रमाचक्रभृतः परा क्रमाद्, भटालिरासन्नतरा द्विधापि या / द्रुतं विधूयाऽन्यदभूयताऽनया, नगस्थया काप्युदरे दरादरेः // 15 // . अन्वयः-चक्रभृतः, पराक्रमात् , क्रमात्, आसन्नतरा, द्विधा, अपि, या, परा, भटालिः, नगस्थया, अनया, अरेः, दरात् , द्रुतम् , अन्यत् , विधूय, कापि, उदरे, अभूयत // 15 // वृत्तिा-चक्रभृतः-चक्रं चक्ररत्नं बिभर्तीति धारयतीति चक्रभृत् चक्री चक्रवर्तीति यावत् तस्य तथा / पराक्रमाव-विक्रमात्, सामादितियावत् / क्रमात्-क्रमशः। आसनतरा-अतिशयेन आसन्ना व्याकुलिता समीपवर्तिनी वा आसन्नतरा। द्विधा-द्विप्रकारा / अपि-सम्भावनायाम् / यायच्छन्दबोध्या / परा-अन्या, अन्यराजसम्बन्धिनीति यावत् / भटालि:-वीरश्रेणी / नगस्थया-नगे पर्वते तिष्ठतीति नगस्था तया तथा / पर्वतस्थितिमत्येति यावत् / अनया-परकीयभटाल्या / अरे:शत्रोः / दराव-भयात् / द्रुतं-शीघ्रम् / अन्यत्-अपरम् / विधूय-परित्यज्य / क्वापि-कस्मिंश्चिदपि / उदरे-मध्ये / पर्वतस्येतिशेषः / गिरिगह्वरे इति यावत् / अभूयत-अजायत / जातमिति यावत् // 15 / / महोहवः क्वापि भटैः कृताहवः, समापतत् त्रस्यति तत्र शात्रवे / गिरौ स्थितं तत्प्रजया जयाहते, मुदा तदाकर्णनसज्जकर्णया // 16 //