________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [89 शची-इन्द्राणी / “पुलोमजा शचीन्द्राणी'' इत्यमरः / इव-यथा / तथा-किञ्च / हिमांशो:-हिमः शीतलोंऽशुः किरणो यस्य स हिमांशुश्चन्द्रमास्तस्य तथा। “हिमांशुश्चन्द्रमाश्चन्द्रः" इत्यमरः / प्रियामनोज्ञा, मनोहारणीतियावत् / रोहिणी-स्वनामप्रसिद्धवनिता / इव-यथा / सा-यशोमती / पञ्चमचक्रिणः-चक्रमस्त्यस्येति चक्री / “अतोऽनेकस्वरात् / " 7 / 2 / 6 / / इत्यनेन मत्वर्थे इन् प्रत्ययः / पञ्चानां पूरणः पञ्चमः / सचासौ चक्री पञ्चम चक्री तस्य तथा / अर्हतः-चतुस्त्रिंशतमतिशयान सुरेन्द्रादिकृतां पूजां वाऽहंतीति अर्हन् जिनस्तस्य तथा / भगवतः शान्तिनाथस्येत्यर्थः। मनोभव जैकवशंवदम्वशमायत्तत्वमधीनत्वमिति यावत्, वशंवदम् एकं मुख्यं वशंवदम् एकवशंवदम् / मनोभवस्य-कामस्य आज्ञा आदेशो मनोभवाज्ञा तस्या एकवशंवदम् मनोभवा कवशंवदम् , कामाज्ञाकारकमिति यावत् / मनः-अन्तःकरणम् 'चित्तमितियावत्' / दधे-पुपोष। धारयति स्म वा। धा धातोर्धारणपोषणार्थत्वात् / पञ्चमचक्रिणोऽहतोऽमनोभवा कवशंवदमित्येवमकारच्छेदो वा कार्य्यः, एवञ्च-अमनोभवम् अकामम् , अकषायमिति यावत् आज्ञाज्ञानम् अमनोभवाज्ञा तस्या एकमद्वितीयम् वशंवदम्-स्थिरम् इति, अमनोभवाईकवशंवदम् , अन्यत्सर्वं समानमिति ज्ञेयम् / / 8 // उपासनामेत्य पितुः स्म रज्यते, क्रमागतामष्टमकृत् परेशितुः / स माग, देवमनुस्मरन वशी, वशीचकाराखिलपूर्वमण्डलम् // 9 // अन्वयः-अष्टमकृत् , परेशितुः, पितुः, क्रमागताम् , उपासनाम् , एत्य, रज्यते स्म, वशी, सः, मागधम् , देवम् , अनुस्मरन् , अखिलपूर्वमण्डलम् , वशी चकार // 9 // ___ वृत्तिः-अष्टमकृत-दिनत्रयव्याप्योपवासात्मकव्रतविशेषोऽष्टमः तं कृतवानिति अष्टमकृत् / परेशितुः-परः श्रेष्ठश्चासावीशिता नायकः प्रभुरिति यावत्, तस्य परेशितुः / पितुः-जनकस्य / श्रीमतो विश्वसेनस्य नृपतेरिति यावत् / क्रमागताम्-क्रमात्-आचारपरम्पराया आगता प्राप्ता क्रमागता तान्तथा / उपासनाम्-समाराधनाम् / एत्य-प्राप्य / रज्यते स्म- अरज्यत / वशीस्वाधीनः / जितेन्द्रिय इत्यर्थः / सः-प्रसिद्धः भगवान् शान्तिनाथ इत्यर्थः। मागधम्-तदभिधानम् / पूर्वसमुद्रगततीर्थपतिम् / देवम्-अमरम् / अनुस्मरन-संस्मरन् / स्मरणपथमानयन्निति यावत् / अखिलपूर्वमण्डलम्-पूर्व पूर्वसागरसम्बन्धि तन्मण्डलम् जनपदः पूर्वमण्डलम् / अखिलं-समस्तञ्च तत्पूर्वमण्डलम् अखिलपूर्वमण्डलम् / वशीचकार-स्वाधीनीकृतवान् / चक्रवर्ती हि पूर्व पूर्वपयोनिधितटमागत्य तत्राष्टमं विधाय मागधदेवं स्ववशीकरोतीतिकल्पः // 9 // प्रभासमेत्याप्यमुना व्यधीयत, दिने दिने साऽवसरेषु बन्दिनाम् / मुखानिशान्ते वरदामधाम्नित-दिशोरवश्यं खलु वश्यकर्मणे // 10 //