________________ 74 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली 'बाह्येन्द्रियत्वाद् वा त्वगिन्द्रियवत् / नन्वेवं तहि विप्रकृष्टार्थग्रहणं कुतः ? रश्म्यर्थसंनिकर्षादनुद्भूतरूपस्पर्शा नायना रश्मयो दूरे गत्वा सन्तमर्थं गृह्णन्ति, अत एव महदणुप्रकाशकत्वात् 'किमिन्द्रियस्य भौतिकत्वं न सिद्धयति ? प्रदीपस्येव रश्मिद्वारेण तदुपपत्तेः। यत्र च रश्मयो भूयोभिः स्वावयवैः सहावियविना तदवयवैश्च सह सम्बद्धयन्ते, तत्राशेषविशेषास्कन्दितस्यार्थस्य ग्रहणात् 'स्पष्टं ग्रहणम् / यत्र 'त्ववयविमात्रेण सम्बन्धस्तत्र सामान्यमात्रविशिष्टस्य धम्मिणो ग्रहणादस्पष्टं ग्रहणम् / यद् गच्छति तत्संनिहित व्यवहितावौँ क्रमेण प्राप्नोति / तत्कथं शाखाचन्द्रमसोस्तुल्यकालोपलब्धिरिति चेत् ? इन्द्रियवृत्तेराशुसञ्चारित्वात् 'उत्पलपत्रशतव्यतिभेदवत् [टि०] इति - यद्यप्यन्वय व्यतिरेकाभ्यां कुड्यादिसंसर्गप्रागभावस्य कारणत्वावगमात् कुड्याद्यन्तरितत्वे कारणाभावः, तथाप्यावारकं द्रव्यं किमप्यावृण्वत् कार्य प्रतिषेधयति / नैवमेवेति भूयोभूयस्तथादर्शनादिति / .. "तथा च सति इति-नन व्यवहितार्थप्रकाशकत्वमित्येवं रूपं शिलादावध्यस्ति न त प्राप्तप्रकाशकत्वमित्यनकान्तिकत्वम, नैवम प्रकाशकत्वे सति व्यवहितार्थाप्रकाशनस्य चिन्तनात् / बाह्येन्द्रियेति-बाह्याग्रहणं मनोव्यवच्छेदार्थम् / अत एव इति / स्वपरिमाणापेक्षया महदल्पं च प्रकाशयतीति तर्कः / अथवा विवादाध्यासितमिन्द्रियम् "अभौतिकम्, स्वपरिमाणाधिकपरिमाणप्रकाशकत्वात्, मनोवत् इति परानुमानम् / अत्र अणुग्रहणं दृष्टान्तार्थम् , यथा चक्षुरणुप्रकाशक तथा महत्"प्रकाशकमिति प्रदीपरश्मिभिरनैकान्तिकमित्यर्थः / क्रमाग्रहणनिमित्तोऽयम् इति-अत्र कर्मो"त्पादकक्षण-संस्कारो"त्पादकक्षण - कर्मनाशक्षण - कर्मान्तरोत्पादक्षणादिक्षणगणनायामितरवेगवत् साधारणे तेजसोऽपि वेगे शाखाचन्द्रमसोस्तुल्यकालोपलब्ध्यनुपपत्तावितरवेगविलक्षणवेगाभ्युपगम एवोत्तरम् / ननु प्राप्ति इति -यदि चक्षुरिन्द्रियं [पं०] तेषामप्रतिघाताद व्यवहितार्थोपलब्धिः स्यात् / परवाक्यं नन्वेवं तीत्यादि / श्रीधरः प्राह रश्म्यर्थसन्निकर्षादिति / रश्मीनां नयनानामर्थेन विषयेण सह नकट्यात् / दूरे गत्वा सन्तमर्थं गृह णन्तीति योगः / ननु भौतिकं यावत्परिमाणं तावत्येवार्थक्रियां ... दृष्टम् , यथा कुठारादिकं वटवृक्षादौ। इन्द्रियं तु स्वपरिमाणाधिकमपि वस्तु प्रकाशयति तथा स्वपरिमाणादण्वपि प्रकाशयति तत्कथं तस्य भौक्तिकत्वं युक्तम् , अभौतिकत्वमेव हि प्राप्तमित्याशंक्याह - अत एव महदणप्रकाशकत्वादिन्द्रियस्याभौतिकत्त्वं न सिद्धयतीति / परवाक्यं यद्गच्छतीत्यादि / प्राप्तिपक्षे इति - नायन [कु०] अविप्रतिपद्यमानान् साङ्ख्यानुत्थापयति न भूतेति (कं. 23.4) / तदयुक्तमिति (कं. 23.6) तदप्राप्यकारित्वं प्रमाणबाधितमित्यर्थः / शङ्कते-योग्यतेति (कं. 23.7) / अयमभिसन्धिः- योग्यता हि तादृशइन्द्रियक्षणपरिणाम[:] अर्थक्षणश्च, तयोरप्राप्तयोरेव ग्रहणग्राह्यभावः / व्यवहितविप्रकृष्टाश्च न तादृशा इति तत्किमप्रतीयमानप्राप्तिकल्पनयेति / तत्र प्रतिक्षणपरिणामस्याग्रे निराकरिष्यमाणत्वात् तदतिरिक्तयोग्यता स्वरूपलक्षणा सहकारिलक्षणा 1 बाह्येन्द्रियत्वात् त्वगिन्द्रियवत् - कं. 1, कं. 3 / 2 किमिन्द्रियस्याभौतिकत्वं - जे. 1, जे. 3; पा. 2, 4 पु. / 3 स्पष्टग्रहणम् - जे.। 4 अवयवमात्रेण - कं. 1, कं: 3; अवयविभागे - जे. 3 / 5 स्पष्टं ग्रहणम् - जे. 1, जे. 3 / 6 °व्यवहितार्थी-कं. 1, कं.२। 7 पलाश-कं. 1, कं.२। 8 व्यतिरेकाना-अ, ब; 9 वार्य-अ,ब,क; 10 तथा मति म. तथा च सति-जे. 1. जे. 3 / 11 अलौकिम-अ, ब; 12 न्यत्राण-अ, ब, 13 प्रकाशमितिभः 14, 15 त्पाद-3; 16 कम्मं तिरोत्पादक्षणो वि-अ, कर्मान्तरोत्पादक्षणादिगणनायाम-ब, क;