________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली विषयग्रहणसामर्थ्य मस्त्येव तदानीम'व्यवहितार्थग्रहणात्, विषयस्यापि योग्यता महत्त्वानेकद्रव्यवत्त्वरूपविशेषाद्यात्मिका व्यवधानेऽपि न निवृत्तैव, आर्जवावस्थानमपि तदवस्थमेव। अथ मतम्-आवरणाभावोऽप्यर्थप्रतीतिकारणं संयोगाभाव इव पतनकर्मणि, आवरणे सत्यावरणाभावो निवृत्त इति प्रतीतेरनुत्पत्तिः कारणाभावादिति / नैतत्सारम्, आवरणस्य स्पर्शवद्रव्यप्राप्ति'प्रतिषेधार्थत्वेनोपलब्धेः, छत्रादिकं हि पततो जलस्य सावित्रस्य च 'तेजसः प्राप्ति प्रतिषेधति, न तु 'स्वस्याभावमात्रं निवर्तयति / तथा च सति सुलभमेतदनुमानम्-प्राप्तप्रकाशकं चक्षुः, 'व्यवहितार्थाप्रकाशकत्वात् प्रदीपवत्, [टि०] नन्वाकाशे महत्त्वमस्ति परं रूपविशेषो नास्ति, द्वयणुके तु रूपविशेष उद्भूतं रूपमस्ति परं महत्त्वं नास्तीत्य चाक्षुषत्वे द्वयोरप्युद्भूतरूपमहत्त्वयोर्दर्शनं प्रति कारणत्ववचनं युक्तम्, महत्त्वाद्यनेकद्रव्यत्वयो रप्युपादानमनर्थकम्, उद्भतरूपस्य महतोऽनेकद्रव्यत्वाव्यभिचारेण व्यवच्छेद्याभावात् / 'सत्यम, द्वयोरपि दर्शनं प्रति कारणत्वख्यापनार्थमथवा द्वयोरपि तुल्यव्याप्यव्यापकताप्रदर्शनार्थं द्वयोरुपादानम् / ननु द्वयोस्तुल्यव्यापकत्वमसिद्धमिति उद्भुत रूपस्यानेकद्रव्यवतो यणुकस्य महत्त्वरहितत्त्वात् ? नैवम्, न विद्यते एक द्रव्यमाश्रयतया यस्य 11 [तदनेकम्, अनेक द्रव्यमाश्रयतया] विद्यते यस्य तदनेकद्रव्यवत्, सावयवद्रव्यारब्धम् इति व्युत्पत्त्या द्वयणुकस्यानेकद्रव्यवत्त्वाभावात् / स्थैर्यपक्षाभिप्रायेण घटस्य तत्स्वरूपत्वाद् योग्यताया अनिवृत्तिः / क्षणिकत्वे कुड्याद्यन्तरितस्यापि पुरुषान्तरेणोपलम्भादस्ति तस्मिन्नेव क्षणे योग्यतेति / संयोगाभावः फलादेवन्तादिनेति / प्रतीतेः इति - कूड्यादिव्यवहितस्यार्थस्येति शेषः / नैतत्सारम् [पं०] कथं कारणं भवतीत्याह-संयोगाभाव इव पतनकर्मणीति सत्यपि हि गुरुत्वे पतनहेतौ यावत्संयोगस्तावत्पतनं न भवति / यथा व्रतसंयोगे बीजपूरस्य, संयोगाभावे पतनम् / इतीति अस्माद्धेतोः / प्रतीतेरिति = अर्थज्ञानस्य / कारणाभावादिति-आवरणाभावस्य कारणस्याभावात् / आवरणस्य स्पर्शवद्रव्यप्राप्तिप्रतिषेधार्थत्वेनोपलब्धरिति प्राप्तिशब्देन संयोगः / इदमत्रावेदितं भवति - न च स्पर्शवन्तीन्द्रियाणि भवन्मतेऽभौतिकत्वात / तत आवरणेन [कु०] ततश्च मनसि मूर्तत्वं नभसि च भूतत्वमिति परस्परपरिहारेण वर्तमानं जातिद्वयं पृथिव्यादौ सङ्कीर्यतेति भावः / "एक निमित्तमित्यादि (कं. 22.25) को ग्रन्थ एकजातिविरहोपलक्षणपरः / न त्वजादिशब्दवद्भुतशब्दस्यानेकार्थत्व प्रतिपादनपरो भोग्यगुणाश्रयत्वेणे []] केनोपाधिसङ्केतसिद्धावनेकार्थकल्पनाया अन्याय्यत्वादिति / प्रकृतिशब्दस्य कारणपर्यायत्वे श्रोत्रं प्रति नभसः कारणत्वाभावोऽत आह-इन्द्रियस्वभावत्वमिति (कं. 23.4) / आगामि बांद्यपदसन्निधर्मनसो वैधर्म्यमनसन्धेयम / समानतन्त्रे पञ्चमीनिर्देशश्च तैरेवोपाधिकल्पनया प्रतिविहितः, पृथिव्याभावा 'दिन्द्रियस्वभावत्वेऽभिहिते इन्द्रियाणां पृथिव्यादिस्वभावत्वमर्थान[]क्तमिति / 1 व्यवहितग्रहणात् - जे.१, जे.३ / 2 तदवस्थम् -जे. 1, जे. 3 / 3 प्रतिषेधभावोपलब्धेः -कं. 1, कं. 2 / 4 तेजसः प्रतिषेधति - कं. 1, कं.३। 5 स्वाभावमात्रं-जे. 1, जे. 3 / . 6 तथा सति-जे. 1, ज.३ / 7 व्यवहिताप्रकाशकत्वात् -जे. 1, जे. 3 / 8 रणुपादान-अ, ब, क; 9 'सत्यम्' इति अबपुस्तकयो स्ति किन्तु अत्रैव बपुस्तके विषयस्यापि योग्यता इत्यावृत्तम् / 10 कूपस्य-अ; न रूपस्य ब; 11 [ ] चिह्नान्तर्गतः पाठः र पुस्तके नास्ति / 12 प्रतिषेधभावोपलब्धेः-कं. 13 एकनिमित्त /