________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [39] पृथिव्यादीनां पञ्चानामपि भूतत्वेन्द्रियप्रकृतित्वबायककेन्द्रियग्राह्यविशेषगुणवत्त्वानि / न्यायकन्दली [39] पृथिव्यादीनामाकाशान्तानामितरवैधर्येण साधयं कथयति-पृथिव्यादीनामिति / . भूतत्वं भूतशब्दवाच्यत्वम् / एकनिमित्तमन्तरेणानेकेषु पथिव्यादिष्वेकशब्दप्रवृत्तिरक्षशब्दवत्, यथा देवनत्वेन्द्रियत्वबिभीतकत्वसामान्यत्रययोगाद्देवनादिष्वक्षशब्दः 'साङ्केतिकः, तथा पृथिवीत्वादिसामान्यवशात् पृथिव्यादिषु चतुर्पु 'भूतशब्दसङ्केतः / आकाशे तु व्यक्तिनिमित्त एव भूतं भूतमिति तच्छब्दानुविद्धः प्रत्ययस्तच्छन्दवाच्यतोपाधिकृतः, यथा देवनादिष्वेकोऽक्ष' इति प्रत्ययः / / इन्द्रियप्रकृतित्वमिन्द्रियस्वभावत्वम् / न भूतस्वभावानीन्द्रियाणि, अप्राप्यकारित्वात्, प्राप्यकारित्वं हि भौतिको धर्मो यथा प्रदीपस्येति केचित् / तदयुक्तम्, 'व्यवहितार्थानुपलब्धेः, यदीन्द्रियमप्राप्यकारि कुड्यादिव्यवहितमप्यर्थं गृह्णीयादप्राप्तेरविशेषात् / योग्यताभावाद् 'व्यवहितार्थाग्रहणमिति चेत् ? इन्द्रियस्य तावद् योग्यता * [रि०] [39] 'एक निमित्तम् इति यदि हि भूतत्वं सामान्यमङ्गोक्रियते तदा मूर्तत्वमपि सामान्यमङ्गीकार्यम् / तथा च भूतत्व मूर्तत्वपरिहारेणाकाशे व्यवस्थितम् , मूर्तत्वं तु भूतत्वपरिहारेण मनस्यवस्थितमिति परापरभावानुपपत्तेः पृथिव्यादौ सङ्कर इति परापरभावानुपपत्त्या न भूतत्वमूर्तत्वसामान्यस्वीकारः। यदि तु परीपरभावोपपत्तिरहितमेव सामान्यं मन्यते तदा सामान्यद्वयस्वीकारेऽपि न दोषः। तथा "पृथिवीत्वाद् इति - व्यक्तीनामानन्त्यात् सङ्केत स्य कर्तुमशक्यत्वात् पृथिवीत्वादि सामान्यचतुष्टयमाकाशव्यक्तिश्च सङ्केतास्पदमिति / इन्द्रिय स्वभाववत्त्वम् इति मनोव्यवच्छेदार्थ बाह्येन्द्रियेति द्रष्टव्यम / अभतस्वभावानि इति - अन्वये मनोवत / विषयस्यापि योग्यता इति [पं०] [39] एकनिमित्तमन्तरेणेति नहि भूतत्वं सामान्यमस्ति / देवनत्वेति - देवन: पाशक.। आकाशे च" व्यक्तिनिमित्त एवेति तत्र सामान्याभावात् / तच्छन्दवाच्यतोपाधिकृतेति न तु घटो घट इति प्रत्ययसारूप्यकृत इत्यर्थः / इन्द्रियप्रकृतित्वमिति तनौ व्यवच्छेदाय बाह्येन्द्रियस्वभावत्वमिति व्याख्येयम् / एकीयमतमुपदर्शयति न भूतस्वभावानीन्द्रियाणीत्यादिना। केचिदिति = बौद्धजनसांख्याः / योग्यतामावादिति = योग्यतायाः अभावादित्यर्थः / नन्वभावः [कु०] [39-40] 'नन्विति / यद्यपि बाह्येन्द्रियग्राह्यविशेषगुणत्वं भूतत्वप्रयोजक तथाप्यनेकजातोयवृत्ते ? (व) गणविशेषस्यैकेनयोपाधिनैकजातिप्रयोजकत्वे परिच्छेदोपाधिकपरिमाणप्रयुक्तं मूर्ति तत्वमपि जाति: स्यात् / 1 पञ्चानां भूतत्वमिन्द्रियप्रकृतित्वं - दे.। 2 एक-जे. 1 / 3 सङ्केतितः- कं. 1, कं. 2 / 4 भूतशब्द: सङ्केतितः--कं. 1, कं. 2 / " अक्षप्रत्ययः-जे. 1, जे. 3 / 6 व्यवहितानुपलब्धेः-कं. 1, कं. 2 / 7 व्यवहिताग्रहणम् - जे. 1, जे. 3 / 8 एक-मु. 9 यदि भूतत्वं - अ; 10 पृथिवोत्याद्-अ; 11 सामान्यत्रयमाकाश... अ, ब, क; सामान्यत्रयचतुष्टय आकाश...४; 12 स्वभावत्वम् -ड; 13 मनोभवत्-ड; 14 तु-कं, 15 प्रतीकमिदं कं. पुस्तके न दृश्यते /