________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 71 प्रशस्तपादभाष्यम् [38] आकाशकालदिगात्मनां सर्वगतत्वं परममहत्त्वं सर्वसंयोगिसमानदेशत्व'ञ्च / न्यायकन्दली [38] आकाशकालदिगात्मनां सर्वगतत्वमित्यादि। सर्वशब्देनात्र प्रकृतापेक्षयानन्त रोक्तानि मतद्रव्याणि परामश्यन्ते / सर्वगतत्वं सर्वैर्भूतैः सह संयोग आकाशादीनाम्, न तु सर्वत्र गमनम्, तेषां निष्क्रियत्वात् / परममहत्त्वमियत्तानवच्छिन्नपरिमाणयोगित्वम् / सर्वसंयोगिसमान देशत्वं च सर्वेषां संयोगिनां मर्त्तद्रव्याणामाकाशः समानो देश एक आधार इत्यर्थः / एवं दिगादिष्वपि व्याख्येयम् / यद्यप्याकाशादिकं सर्वेषां संयोगिनामाधारो न भवति, 'आधारभावेनानवस्थानात्, तथापि सर्वसंयोगाधारत्वात् सर्वसंयोगिनामाधार इत्युच्यते, उपचारात् / अत एव सर्वगतत्वमित्यनेनापुनरुक्तता। तत्र हि सर्वैः सह संयोगोऽस्तीत्युक्तम् / इह तु सर्वेषामाधार इत्युच्यते / [टि०] [38] सर्वैः भूतैः सह इति - युगपत्संयोग इत्यर्थः। ननु यत्राकाशदेशे परमाणु स्तत्र किमाकाश मस्ति न वा ? यद्यस्ति तहि परमाणोः सावयवत्वम, यदि नास्ति तदाकायदेशो नष्टोऽनष्टो वा? नाशे तस्यानित्यत्वम्, अनाशे तु परमाणुमध्येऽवस्थान वाच्यम्, अवस्थाने पूर्वदोषः, 'अनवस्थाने आकाशस्याव्यापकत्वम्; नैवम् , परमाणोनिरवयवत्वेन मध्यासम्भवात् तत्रावस्थानानब स्थानचिन्ताया निरुपपत्तिकत्वात् / (पं०] [38] मूर्तद्रव्याणीति - क्षितिजलानलानिलमनांसि / सर्वगतत्वं सर्वभूतैः सह संयोगः आकाशादीनामिति - अमूर्तेः सह मूर्तानां संयोगो न भवति / अमूर्ताना व्यापक वात्, सयोगम्य चाप्राप्तिपूर्वकत्वात् / तेषां च प्राप्तेरभावात् / अप्राप्तानामेव च प्राप्तियोगादिति भावः / तेषां निष्क्रियत्वादिति -निष्क्रियत्वं च व्यापकत्वादवसेयम् / आधार.मावेनानवस्थानादिति-आधारो हि आधेयस्याधो भवति / आकाशादिकं तु न तथा, व्यापकत्वात्तस्येति भावः / सर्वसंयोगाधारत्वादिति - सर्वसंयोगिनां योऽसौ आकाशादिना सह संयोगस्तदाधारत्वादित्यर्थः / सर्वसंयोगिनामाधार इत्युच्यते उपचारादिति-संयोगस्य समवेतत्वात्समवायस्य चाश्रयायिभावेन स्थितत्वान्नोपचर्याधा[२] भावयतेति परमार्थः / [कु०] [38] नन सर्वगतत्वं सर्वैः संयोगो विवक्षितः समवायस्यासम्भवात् / तत्र न गुणादिभिः संयोगो द्रव्यत्वात् / परस्परं चाकाशादीनां न किया। (न) दः संयोगः अमूर्तत्वात् तदभावात् न संयोग[ गो पि)[नापि अजश्च संयोगो "नाजः संयोग इति निषेत्स्यते तस्मादनुपपन्नमित्याह - सर्वशब्देनेति (कं. 22.13) / इयत्तानवच्छिन्नेति (कं. 22.15) हस्तमितस्त्यादिपरिमित्यभाये अणत्वावान्तरपरमाणत्वपरि मागवन्नहत्त्वावान्तरसरममहत्त्वमपि परिमाणमाकाशाशिषु स्वीकर्तव्यम् / अणमहत्त्वयोरुभयोरपि परिमाणभेदत्वाविशेषात इयत्तापचयपरिमाणत्वे सङ्खयागुरुत्वयोरपि परिमाणत्वप्रसङ्गः / आधारभावेनेह प्रत्ययविषयत्वेन / अत एवेति (कं. 22.20) कृत्तद्धितसमासेषु सम्बन्धाभिधानत्वं तुल्यमिति न्यायात् / मूर्तसंयोगित्वं मूर्तसंयोगः / संयोगाधारत्वं संयोगसमवाय इति भेदादिति भावः / 1. चेति -कि.दे.। 2 देशत्वं सर्वेषां-कं.१, कं. 2 / 3 अधरभावेन - जे.१। 4 सूत्र-अ; 5 मस्ति वा?-अ,4%; मास्ति न बा-ड; 6 अनवस्था- अ, ब, 7 नस्थान - ड;