________________ 70 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम न्यायकन्दली संयुक्तसंयोगाल्पीयस्त्वमयस्त्वयोरेव परापरव्यवहारहेतुत्वात् परत्वापरत्वे न स्त इति केचित्, तन्न, भिन्नदिक्सम्बन्धिनोः सत्यपि संयुक्तसंयोगाल्पीयस्त्वभूयस्त्वसद्भावे सत्यपि च द्रष्टुः शरीरापेक्षया सनिकृष्टविप्रकृष्टबुद्धयोरुत्पादे परापरप्रत्ययाभावात् / एकस्यां दिश्यवस्थितयोः पिण्डयोस्तथा प्रत्यय इति चेत् ? अस्ति तहि संयोगाल्पीयस्त्वभूयस्त्वाभ्यां विषयान्तरम्, विषयवलक्षण्यमन्तरेण विलक्षणाया बुद्धेरनुत्पादात् / वेगोऽपि गुणान्तरम्, न क्रियासन्ततिमात्रम्, मन्दगतो वेगप्रतीत्यभावात् / क्रियाक्षणानामाशत्पादनिमित्तो वेगव्यवहार इति चेत् ? न, अलातचक्रादिषु क्रियाक्षणानां निरन्तरोत्पादव्ययवतां प्रत्येकमन्तराग्रहणेनाशत्पादस्य प्रत्यक्षेणाप्रतीतेः, वेगप्रत्ययस्य च भावात् / व्यक्ता च लोके क्रियावेगयोर्भेदावगतिः, वेगेन गच्छतीति प्रतीतेः / [टि०] अलातचक्रादिषु इति ननु क्रियाक्षणानामन्त रस्य यदग्रहणं तन्निमित्त एव वेगव्यवहारो भविष्यति नाशूत्पादनिबन्धन इति ? 'नायमन भदोषः वेगेन गच्छतीत्यत्रापि क्रियाक्षणोत्पादात्प्रत्यक्षत्वेन गच्छतीत्यर्थे द्वयोः शब्दयोर्वेगं गुणान्तरं विनापि सार्थकत्वम् ? नैवम् / स्तोकवे गेऽन्तरप्रतीतौ 'वेगप्रतीत्यभावप्रसङ्गात् / / [पं०] अवच्छिन्नपरिमाणयोगित्वमिति-असर्वगतपरिमाणयोगित्वमित्यर्थः / संयुक्तसंयोगाल्पीयस्त्वभूयस्त्वयोरेव परापरव्यवहारहेतुत्वात् परत्वापरत्वे न स्त इति केचिदिति-कोऽर्थः ? यत्र प्रमातरि व्यापारिते करणेऽपेक्षाबुद्धिः समस्ति / तेन संयुक्तायाऽसौभूमिस्तदवयवानां ये संयोगा: परस्यापरस्य च द्रव्यस्य प्रमातुश्चान्तराले, तेषां भूयस्त्वे परत्वम्, अल्पीयस्त्वे चापरत्वमित्यर्थः / भिन्नदिसंबन्धिनोरिति-- वामदक्षिणदिसंबन्धिनोः पिण्डयोः / तथा प्रत्यय इति = परापरप्रत्ययः / विषयान्तरमिति - एकदिगवस्थानलक्षणम् / विषयलक्षण्यमिति-परत्वापरत्वलक्षणम् / विलक्षणाया बुद्धेरिति = परापरबुद्धेः / मन्दगती वे[ग]प्रतीत्यभावादिति - अन्यथा मन्दगतावपि क्रियासन्ततिमात्रमाख्यं वेति भावः / प्रत्यक्षेणाप्रतीतेरिति क्षणिकत्वेन विनष्टत्वादिति भावः / [कु०] स्तयोरिह विचारमारभते संयुक्तेति] (कं. 21.26) / अस्ति तहीति (कं. 22.4) परापरव्यवहारौ संयुक्तसंयोगाल्पीयस्त्वभूयस्त्वसन्निकृष्टविप्रकृष्टबुद्धयेकदिगवस्थानव्यतिरिक्तविषयौ। तेषु सत्स्वपि प्रमातर्यनुत्पत्तेरिति भावः / यद्यपि द्वितीयादिकर्मकारणतया क्रियाव्यतिरिक्तो वेगोऽनु मातुं शक्यते उक्तं च सूत्रकृता (नोद) “नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारः तथोत्तरमुत्तरं च" (वै. सू. 5.1.17) इति तथापि तत्र प्रत्यक्षमपि सुप्रसिमित्याह वेगोऽपोति (कं. 22.6) / मन्दगतादिति (कं. 22.6) लोके प्रतीयते। समुत्कटविषयत्वात् क्रियासन्ततिप्रतीतावपि यस्यासमुत्कटत्वात् स्फटिकादौ गन्धस्येव च मन्दगतिव्यवहाराः स / वेगः शीघ्रगतौ चन्दनादौ गन्ध इव प्रत्यक्षसिद्ध इति भावः / व्यवहारस्य भावाभावयोरन्यथासिद्धिमाशङ्कय परिहरति क्रियाक्षणेति (कं. 22.7) / ननु क्रियाक्षणानां नरन्तर्यानुमानकृतोऽयं वेग-व्यवहारः कथं लौकिकप्रतीतिकृत इत्यत आह व्यक्ता चेति (कं. 22.9) / 1 न-कं. 1, कं. 2 / 2 क्रियामन्तरस्य-अ, ब; 3 नायमलम्भ-ड; 4 पादाप्रत्यक्षत्वेन; 5 गेन्तरप्रतीतौ-अ; 6 प्रतीत्यभावात् - अ, ब, क; 7 अतः पराणि सप्त पत्राणि-'अ' पुस्तके नोपलभ्यन्ते /