________________ टिप्पणपञ्जिकाकुसुमोद्गमा दटोकात्रयोपेतम् प्रशस्तपादभाष्यम् [37] अनाश्रितत्वनित्यत्वे चान्यत्रावयविद्रव्येभ्यः / पृथिव्युदकज्वलनपवनात्ममनसामनेकत्वापरजातिमत्त्वे / क्षितिजलज्योतिरनिलमनसां क्रियावत्त्वमूर्त्तत्वपरत्वापरत्ववेगवत्त्वानि / न्यायकन्दली [37] अनाश्रितत्वं क्वचिदप्यसमवेतत्वम्, नित्यत्वं विनाशरहितत्वञ्च द्रव्याणां साधर्म्यम। तत्कि 'सर्वेषां साधर्म्यमित्यत आह-अवयविद्रव्येभ्योऽन्यत्रेति / अवविद्रव्याणि परित्यज्यान्त्यविशेषवत्त्वानाश्रितत्व'नित्यत्वान्यन्यत्र सन्तीत्यर्थः / न केवलं पूर्वोक्ताः पथिव्यादीनां धर्माः, किन्त्वनाश्रितत्वनित्यत्वे चेति चार्थः / 'इदानी द्रव्याणामेव परस्परसाधर्म्य वैधर्म्यञ्च प्रतिपादयन्नाह-पृथिव्युदकज्वलनपवनात्ममनसामिति / अनेकत्वं प्रत्येक व्यक्तिभेदः / अपरजातिमत्वमिति पृथिवीत्वादिजातिसम्बन्धित्वम् / क्षितिजलज्योतिरनिलमनसां क्रियावत्त्वमूतत्वपरत्वापरत्ववेगवत्त्वानीतिः क्रियायत्त्वमुत्क्षेपणादिक्रियायोगः / 'मर्त्तत्वमवच्छिन्नपरिमाणयोगित्त्वम् / परत्वापरत्व वेगवत्वानि परत्वापरत्ववेगसमवायः / [टि०] [37] 'ननु नित्यद्रव्येष्वेवकारणेन 'नाशस्यासम्भवात् कारणेति विशेषणस्यानर्थक्यम्, अविनाश इत्येतावत् एवोपयुक्तत्वात् ? न, अनित्यद्रव्येषु चरितार्थत्वात् / विषयस्य वैलक्षण्यम इति - यथा घटत्वनिबन्धनो घटव्यवहारः सर्वेष्वपि घटेषु सर्वत्रावस्थितेषु भवति। न त्वेकदिगवस्थानमपेक्षते, तथाऽत्रापि संयुक्तसंयोगाल्पत्वबहुत्व सन्निकृष्टादिबुद्धिमात्रनिमित्तक एव परापरव्यवहारः स्यात् न त्वेकदिग्व गव]स्थानापेक्षः बुद्धेः विषयमात्रालम्बनत्वात्, गुगान्तरस्य चकदिगवस्थामजनितस्यानभ्युपगमात् / [पं०] [37] अवयविद्रव्याणि परित्यज्यान्त्यविशेषवत्वानाश्रितत्वनित्यत्वान्यन्यत्र सन्तीति-अन्त्य विशेषाणां नित्यद्रव्यवृत्तित्वात् अवयविनस्त्ववयवारभ्यत्वादनित्यत्वात्तदभाव इति द्रष्टव्यम् / इति चार्थ इति = इति चकारस्यार्थः / [कु०] [37] ननु द्रव्याणीत्याकाशकालदिक्ष्वनेकत्वं दृश्यतेऽत आह प्रत्येकमिति (कं. 21.19) / पृथिवीत्वादिजातिसम्बन्धित्वमिति द्रष्टव्यम् / [द्रव्य] त्वजात्यपेक्षया अपरजातिमत्त्वमित्यर्थः / 'आत्मा जानाति', 'आकाशं विद्यते' इति सर्वेषामपि क्रियावत्त्वं दश्यतेऽत आह-उत्क्षेपणादीति (कं. 21.24) / परत्वापरत्वयोर्गुणकाण्डान्तःपातिनोरपि ("सुभाषितरुचितयोय (रि)ह विचारमारभते "स उत्तेति) [भाष्योक्त्यो१ कि सर्वेषामित्यत आह-जे. 1, जे. 3 / 2 नित्यत्वान्यत्र-जे. 1, जे. 3 / 3 पृथिव्यादीनां द्रव्याणामेवकं. 1, कं. 2 / 4 मूर्तत्वं च असर्वगतद्रव्यपरिमाणं मूर्तिः-टिप्पण जे. 1 / 5 वेगवत्त्वानीति - जे. 1, जे.३ / 6 न च नित्य - अ, ब, 7 नाशशब्दस्या-अ, ब; 8 चैक - अ, ब, क; 9 सन्निकृष्टादिमात्र - अ; 10 अत्र कदाचिद् [ ] एतच्चिह्नान्तर्गतः पाठः स्याद् आदर्शपुस्तकस्थः पाठोऽत्रासमीचीनो भाति / 11 संयुक्त