________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम न्यायकन्दली धर्मिण्यस्तित्वकथनम् / तथा चैवं प्रयोगः-पृथिव्यादिकमितरेभ्यो भिद्यते द्रव्यत्वात्, येषामितरेभ्यो भेदो नास्ति तेषां द्रव्यत्वमपि नास्ति, यथा रूपादीनामिति / तस्मादसच्चोद्यमसदुत्तरञ्च / - अन्यदपि द्रव्याणां साधर्म्यमाह-स्वात्मन्यारम्भकत्वमिति, स्वात्मन्यारम्भकत्वं स्वसमवेतकार्यजनकत्वमित्यर्थः / गुणवत्त्वं गुणैः सह सम्बन्धः / एतदप्यभयं गणादिभ्यो द्रव्याणां वैधर्म्यमन्यत्रासम्भवात् / कार्यकारणाविरोधित्वम् / गुणो हि क्वचित्कार्येण विनाश्यते, यथा आद्यः शब्दो द्वितीयशब्देन / क्वचित्कारणेन विनाश्यते, यथा अन्त्यः शब्द उपान्त्यशब्देन / कर्मापि कार्येण विनाश्यते, यथोत्तरसंयोगेन। द्रव्याणि तु 'न स्वकार्येण विनाश्यन्ते नापि स्वकारणेनेति कार्यकारणाविरोधीनि / नित्यानां कारणविनाशयोरभावादेव कारणेनाविनाशः, अनित्यद्रव्याणां कारणविनाशयोः सम्भवेऽपि 'कारणेन न विनाशः, किन्त्वन्येनेति विवेकः / तथा अन्त्य विशेषवत्त्वमन्त्यविशेषयोगित्वमित्यर्थः / [हिं०] यथाऽन्त्यः शब्द इति :- ननु यदाऽन्त्यशब्द उपान्त्यशब्देन 'नाश्यते तदा विनश्यतेवो [पान्त्य शब्देनोत्पन्नमात्र एव नाशनीयः, ततश्चान्त्यशब्द उत्पन्नो विनष्टश्चेत्येकक्षणमात्रतः कस्मिन्क्षणेऽर्थक्रियां करोती केचिदुपान्त्यशब्द प्रध्वंसस्य कारणत्वं मन्यन्त इति / नित्यानाम इति / [पं०] न तु समवाय इति भावः / लिंगस्य धर्मिण्यस्तित्वकथन मिति-पक्षधर्मत्वकथनम्। यथा लिंगेऽविनाभाव एव गमकः / पक्षधर्मत्वं तु नियतधर्मत्वप्रतिपादनायाह / न ह्यग्ने मादिलिंगस्यास्तित्वगमकं किन्तु धूम एव गमकः / परसंबद्ध एवासौ गमक इति तस्यास्तित्वं धर्मिणि कथ्यते / एवमत्रापि द्रव्यत्वमेव लक्षणम् , समवायस्तु नैयत्यायेति तात्पर्यम् / द्रव्यत्वयोगादिति अत्र द्रव्यत्वादिति पाठान्तरम् / द्रव्यत्वयोगोऽपि नास्तीति-अत्र द्रव्यत्ववत्त्वमपि नास्तीति पाठान्तरम् / द्रव्याणां वैधर्म्यमिति-गुणाद्यपेक्षया / अन्यत्रेति = गुणादौ / उपान्त्यशब्देनेति = अंत्यादर्वाचीनेन शब्देन / अन्येनेति = मुद्गरादिना / [कु०] "एतदपीति (कं. 21.2) अपि शब्दाद्रव्यत्व [म] पि / तत्र द्रव्यत्वमपि तत्र द्रव्यव्यवहारनिमित्तं / द्रव्यत्वम् / समवायिकारणत्वम् / गुणवत्त्वे तु तस्यैव व्यवस्थापके इति भावः / द्रव्याणित्विति (कं. 21.7) उभयथाऽपि तृतीये क्षणे कार्यस्यानवस्थानप्रसङ्ग इति भावः / "अनित्यानामिति (कं. 21.9) कार्येण सतापीति शेषः / किन्त्वन्येनाश्रयविनाशेनासमवायिविनाशेन वाऽनित्यत्वद्रव्यत्वे सतीति विशेषणीयम् / ___अतत्परिहृत्य चार्थं व्याचष्टे अन्त्यविशेष [व]त्व (कं. 21.14) मनाश्रितत्वं चेति चार्थ इति / 1 स्वात्मन्यारम्भकत्वमिति, स्वसमवेत - कं. 1, कं. 2 / 2 एतदप्युभयं द्रव्याणां-जे. 1, जे. 3 / 3 न कार्येण विनाश्यन्ते न कारणेन-कं. 1, कं. 2 / 4 कारणेनाविनाश:-पा. 2.4 पु., जे. 1, जे. 3 / 5 विशेषत्वं-जे. 3 ! 6 नादृश्यते-अ; 7 केचित् पदं [ ] एतच्चिह्नान्तर्गतः पाठः अबपुस्तकयोरावृत्तः / 8 केचिद् - अ, ब, क; 9 प्रशस्य-अ, ब, क; 10 द्रव्यत्वात्-कं.। 11 अन्यदपि - कं.। 12 अनित्यद्रव्याणां-कं.। 13 अवयविद्रव्याणि परित्यज्य इति कन्दल्यां पाठः /