________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [36] पृथिव्यादीनां नवानामपि द्रव्यत्वयोगः 'स्वात्मन्यारम्भकत्वं गुणवत्त्वं कार्यकारणाविरोधित्वमन्त्यविशेषवत्त्वम् / न्यायकन्दली [36] इहानी द्रव्याणामेव साधर्म्य निरूपयति-पृथिव्यादीनामिति / पृथिव्यादीनामेव 'द्रव्यत्वेन सामान्येन योगः सम्बन्धः / स 'कियतामित्यत आह-नवानामपीति / अपिशमोऽभिव्याप्त्यर्थः। एतेन द्रव्यपदार्थस्येतरेभ्यो भेदलक्षणमुक्तम् / द्रव्यशब्दस्य प्रवृत्तिनिमित्तञ्च चिन्तितम् / अत्र कश्चित् चोदयति-द्रव्यत्वयोगो द्रव्यत्वसमवायः, स च पञ्चपदार्थधर्मत्वात कथं द्रव्यलक्षणमिति / अपरः समाधत्ते-यद्यपि सर्वत्राभिन्नः समवायः, तथापि द्रव्यत्वोपलक्षणभेदाद् द्रव्यस्य लक्षणम्, दृष्टो हि कल्पितभेदस्याप्याकाशस्य श्रोत्रभावेनार्थक्रियाभेद इति / द्वयमप्येतदसाधीयः, यथाकाशं श्रोत्रं नैवं योगो द्रव्यस्य लक्षणम्, किन्तु द्रव्यत्वमेव, तत्त्वसम्बद्धं लक्षणं न स्यादिति योगसङ्कीर्तनं लिङ्गस्य [टि०] [36] - [ द्रव्यपदार्थे साधर्म्यवैधर्म्यनिरूपणम् / ] द्रव्यादित्यस्यानित्यत्वकार्यत्वार्थ शब्दाभिधेयत्वादिके साधर्म्य प्रतिपादिते 'सामान्यादिश्यस्य तद्विपर्ययः साधर्म्य लब्धमेवावृ[प] त्या परं सुखबोधार्थ शब्देनाप्युल्लिखितमिति / . पं०] प्रध्वंनाभावेन व्यभिचारोमा भूदिति-उत्पत्तिग्रहणं नक्षतम् / प्रध्वंसाभावो हि उत्पत्तिमानपि विनाशरहितः / विनाशरहितत्वादेव च नित्य: / व्यक्त्युत्पादविनाशयोरिति- व्यक्तयूत्पादविनाशयोः सतोरित्यर्थः / निरुपाधिप्रत्यक्षेणेति =निर्दोषप्रत्यक्षेण / सर्वत्र कार्योपलंभादिति = इह प्रत्ययोपलंभात् / कार्य हि कारणेन सह सम्बद्ध स्यादिति भावः / [36] इतरेभ्य इति - गुणादिभ्यः / स चेति = समवायः / पञ्चपदार्थधर्मत्वादिति = द्रव्यगुणकर्मसामान्यविशेषधर्मत्वात् / अपर इति व्योमशिवः। द्रव्यत्वोपलक्षणभेदाद् द्रव्यस्य लक्षणमिति - द्रव्यत्वोपलक्षित: समवायो द्रव्यस्य लक्षणम् / नत्वन्योपलक्षित इत्यर्थः / श्रोत्र भावेनार्थक्रियाभेद इति-श्रोत्ररूपं हि नभः शब्दं शृणोति न शेषम् / द्वयमप्येतदिति चोद्यमुत्तरं च / योग इति-समवायः / किन्तु द्रव्यत्वमेवेति-को भावः ? द्रव्यत्वमेव द्रव्यस्य लक्षणम्, [कु०] [36] अत्र कश्चिदिति (कं. 20.20) सामान्यस्य स्वविषयसर्वगतत्वमपश्यन् समवायस्य च लक्षणं पश्यन्निति विशेषः / अपर इति (कं. 20.22) सामान्यस्य स्वविषयसर्वगतत्वं पश्यन्निति शेषः / द्वयमप्येतदिति (कं. 20.24) स्वविषयसर्वगतेन सामान्येन लक्षणसिद्धौ समवायस्य लक्षणत्वकल्पनया चोद्यपरिहारावसङ्गतावित्यर्थः / तथा च अन्यत्वेनैव भेदः / 1 स्वात्मनारम्भकत्वम् - ता.। 2 गुणवत्त्वं च -दे.। 3 द्रव्यत्वेन योग:-जे. 1, जे. 3 / 4 कियतामतकं. 1, कं. 2 / 5 शब्दाभिवियादिके - अ, ब; 6 सामान्यत्रयस्य-अ, ब, क; 7 कृतम् -अ /