________________ 66 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली 'अकारणत्वं समवाय्यसमवायिकारणत्वाभावः, न तु निमित्तकारणत्वप्रतिषेधः, बुद्धिनिमित्तत्वाभ्युपगमाद् / असामान्यविशेषवत्त्वम् अपरजातिरहितत्वमित्यर्थः / सामान्येषु सामान्यन्नाम नापरं सामान्यमस्ति, तत्रापि सामान्यप्राप्ताऽनवस्थानात् / विशेषसमवाययोस्तु सामान्याभावे कथित एव न्यायः / कथं तहि सामान्येषु प्रत्ययानुवृत्तिः सामान्यं सामान्यमिति ? अनेकव्यक्तिसमवायोपाधिवशाद् विशेषेष्वप्येकशब्दप्रवृत्तिः, अत्यन्तव्यावृत्तिबुद्धिजनकत्वस्य सर्वत्र सम्भवात् / नित्यत्वं विनाशरहितत्वम्, तदपि सामान्यस्य व्यक्त्युत्पादविनाशयोरवस्थितिग्राहिणा भूयो भूयः प्रवृत्तेन निरुपाधिप्रत्यक्षेण व्याप्तिवन्निश्चीयते। समवायस्य तु सर्वत्र कार्योपलम्भादकृतकत्वाच्चानुमीयते / अर्थशब्दानभिधेयत्वञ्चेति / स्वसमयार्थशब्दानभिधेयत्वं चैतेषां साधर्म्यम् / चः समुच्चये। [टि०] सामान्यमित्यत्र 'यण् प्रत्ययो घटत्वादिजात्यपेक्षया, सामान्यत्वमित्यत्र 'तु 'त्व' प्रत्ययः सामान्यत्वजा (न्यजा)त्यपेक्षयेति / ननु सर्वेषु गोत्वादि सामान्येष्वनुवृत्तप्रत्ययहेतोः सामान्यस्यैकत्वाद् व्यक्ते रभेद इति "बाधकवशात्तत्र सामान्यान्तरप्रसङ्गस्यैवाभावात्कथमनवस्था दूषणं सम्बध्यते ? 'सत्यम्, सर्वसामान्यसामान्ये सामान्ये सामान्यप्रत्यय इतरेषु च सामान्येष्वेकनिबन्धन इति "पुनः सर्वव्यापकं सामान्य 'मेकं मन्तव्यमित्याद्यनवस्थाप्रसङ्गो भवत्येव / विशेषसमवाययोस्तु इति -विशेषेषु "रूपहानिः समवायऽसम्बन्धः / [पं०] ननु व्यक्त्यभेदो जातिबाधकस्तत्कथमत्र व्यक्तिभेदेऽपि न सामान्यमित्याह - सामान्येषु सामान्यत्वमित्यादि / तत्रापीति = सामान्यत्वेऽपि / विशेषसमवाययोस्तु सामान्याभावे कथित एव न्याय इति विशेषेष्वपि सामान्यसद्भावे संशयस्यापि संभवात् निर्णयार्थं विशेषानुसरणेऽप्यनवस्थैव / समवायेऽपि सत्ताऽभ्युपगमे तद्वृत्यर्थं समवायान्तराभ्युपगमात् अनिष्टापत्तिरेव दूषणमित्येतेन पूर्वोक्तेन सन्दर्भेणेति ज्ञेयम् / ] श्रीधर उत्तरयति-अनेकव्यक्तिसमवायोपाधिवशादिति-- कोऽर्थः ? यर्थक सामान्यमनेकासु व्यक्तिषु वर्तते तथाऽन्यदपीत्यनेकव्यक्तिवृत्तिमुपाधिमाश्रित्यकशब्दप्रयोगः सामान्य सामान्यमित्यर्थः / विशेषेष्वप्येकशब्दप्रवृतिरिति अयं विशेषोऽयं विशेष - इत्येवंरूपा। नित्यत्वं विनाशरहितत्वमिति [कु०] सामान्यसमवाययो तर्कसहमिग्राहकप्रमाणावेद्यं, विशेषाणां तु प्रमाणान्तरावेद्यमिति क्रमः / विशेषाणां चेति (कं. 20-2) अविशिष्टतया सङ्कीर्णानां विशेषोत्पत्तौ स्वभावपरावृत्तिप्रसङ्ग इत्यनुकूलतर्को द्रष्टव्यः / बुद्धिनिमित्तत्वाभ्युपगमादिति (कं. २०.४)-घटत्वादिसामान्यस्येति शेषः / अपरजातिरहितत्वमिति (कं. 20.5) सत्ताविरहप्रागेव प्रतिपादनाद्विशेषनिषेधेपि न शेषाऽभ्यनुज्ञा / "तत्रापीति-(कं. 20-6) अनङ्गीकारे सामान्यत्वव्याघात इत्यर्थः / अयं च सामान्यं सामान्यमित्यनवत्तिप्रत्ययविषयत्वादित्यस्य प्रतिकलस्तर्कः / सर्वत्र कार्योपलम्भादिति (कं. 20.11) नित्येष्वनित्येषु चेहप्रत्ययोपलम्भात्तद्वृतेः समवायस्याश्रयविनाशादिविनाशकारणाभावादिति भावः / 1 अकारणवत्वं -जे. 3 / 2 अत्रापि सामान्यप्राप्त्यावस्थानात् - कं. 1; कं. 2 / 3 भावात् - जे. 1; जे. 3 / 4 द्यण् - ड; 5 तु प्रत्ययः- अ, ब; 6 सामान्ये सामान्यसामान्यप्रत्यय - अ, ब; 7 बाध- ड; 8 सत्या-अ; 9 सर्वसामान्यसामान्ये -8, सर्वसामान्यसामान्य- अ, ब१० पुरः-ड; 11 मेकन्तच्च - ड; 12 हानिः-म, ब, क; 13 अत्रापि - कं.।