SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली अकार्यत्वं कारणानपेक्षस्वभावत्वम्, तच्च सामान्ये तावद् व्यक्तेः पूर्वमूवं व्यक्तिकाले चावस्थितिग्राहकेण कारणाभावोपलब्धिसहकारिणा भयोदर्शनजसंस्कारानगृहीतेन प्रत्यक्षेणैव व्याप्तिवद् गृह्यते। सनवायस्याप्य कार्यत्वं पूर्वापरसहभावानवक्लप्तेः, यदि हिं पटस्य समवायः पटात्पूर्व सम्भवति, असति सम्बन्धिनि कस्यासौ सम्बन्धः स्याद् / अथ पटेन सहोत्पद्यते, तदा पटस्यानाधारत्वं प्राप्नोति / अथ पश्चाद्भवति, तथापि पटस्यानाधारत्वमेव, न च कार्यत्वमनाधारं युक्तम्, तस्मादकृतकः समवायः / विशेषागाञ्चाकार्यत्वं वस्तुत्वे सति द्रव्यगुणकर्मान्यत्वात् 'सामान्यसमवायवत् सिद्धम् / [टि०] बुद्धि'लक्षणत्वम् / तच्च सामान्यस्य इति :-यावदेका घटव्यक्तिरद्यापि नोत्पद्यते तावदन्यस्यां व्यक्ती सामान्य दृश्यते, तव्यक्तिविनाशे चान्यस्यां दृश्यते, कारणं च सामान्यस्य किमपि न दृश्यते इत्यकार्यत्वम् / न च 'कार्यमितिनन द्रव्यनाशस्तावद्रपनाशे कारणं ततो द्रव्यनाशे मति द्वितीये क्षणे रूपनाशात्कार्यरूपमेकं क्षणं निराधारमेव तिष्ठतीप्ति कथमुक्तम्, न च कार्यमनाधारं युक्तमिति ? सत्यम् द्रव्यनाशस्य रूपनाशं प्रति कारणत्वेनाभ्युपगमात्तत्रैवं क्रियते इह तु निराधारं कार्य कथमुत्पद्यते इति नाङ्गीक्रियते / 'विशेषाणां च इति - अत्र सामान्येऽन्यव्यवच्छेद्यत्वाभावात् वस्तुत्वे सतीत्यभावव्यवच्छेदार्थं विशेषणं व्यर्थमिति न वाच्यम्, पक्षे सार्थकत्वात् / सामान्येषु इति - * [पं०] लक्षण येषां बुद्धया वा लक्ष्यंत इति बुद्धिलक्षणास्तेषां भावो बुद्धिलक्षणत्वमित्युक्तं व्योमशिवेन तद्दर्शयति कश्चित् पुनरेवमाहेत्यादिना। स्वबुद्धिग्राह्यत्वादिति- अत्र बुद्धिलक्षणत्वादिति पाठान्तरम् / पूर्वमिति = अतीतकाले / उर्वमिति = भविष्यतिकाले / व्यक्तिकाल इति = वर्तमानकाले। व्याप्तिवद् गृह्यत इति-यथा व्याप्ति : प्रत्यक्षेण गह्यते, एवं सामान्यस्यापि कारणानपेक्षस्वभावत्वं प्रत्यक्षेणैव गृह्यत इत्यर्थः / पूर्वापरसहभावानवक्लपेरिति-- पूर्वापरसहभावनावधारणात् / अनेन कालत्रयाभावो दर्शितं (तः) / असति सम्बन्धिनि कस्यासौ सम्बन्धः स्यादिति / द्विष्टत्वात्संबंधस्येति भावः / ..[50] कारणाभावोपलब्धीति (कं. 19.21) सामान्यस्य हि कारणं भवत्तदाधारतया व्यक्तिरेव स्यात् तथा च : तदुपत्तेः प्रागुपलभ्येत / प्रतिव्यक्तिभेदे च सामान्यरूपताहानिरिति तर्कसहकृतेन चक्षुषी [षि] गोत्वाद्यधिकरणाभावोपलब्धिः / ननु यदि चक्षुषि प्रतीयमानमकार्यमिति प्रतीयते तडॅकस्यामेव व्यक्ती प्रथमत एव दृश्यमानं तथा कि न दृश्यते इत्यत आह - भूयोदर्शनजेति (कं. 19.21) / अनाश्रितत्वं प्राप्नोति / अनाश्रितमुत्पद्यते इति * प्रतीतिविरुद्धति भावः / न च "कार्यमिति (कं. 20.1) भावरूपं हि कार्य समवायिकारणवत्, समवायिकारणं च यत्समवेतं कार्यमुत्पद्यते तदेव / तथा च घटस्यानाधारत्वे मृत्पिण्डस्य समवायिकारणत्वव्याघाताद् घटस्यानुत्पत्तिप्रसङ्ग इत्यर्थः / .. 1 सामान्यस्य - जे. 1; जे. 3 / 2 पूर्वपर- जे. 1; जे. 3 / 3 कार्यम् - जे. 1, जे. 3 / 4 सामान्यवत्सिद्धम् -जे. 1; जे. 3 / 5 लक्षणम् - ड; 6 सामान्ये मु. किन्तु - जे. 1, 3 सामान्यस्य; 7 कार्यत्वं मु. कार्यम् - जे.१,३; 8 तिष्ठती- अ, ब; 9 विशेषणं वेति - अ, ब, क; 10 कार्यत्वम् - कं.।
SR No.004336
Book TitleNyayakandali
Original Sutra AuthorN/A
AuthorJ S Jetly, Vasant G Parikh
PublisherOriental Research Institute Vadodra
Publication Year1991
Total Pages748
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy