________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली सत्तासम्बन्धस्य तन्निवृत्तौ निवृत्तिसिद्धिः। कुतस्तहि सामान्यादिषु सत्सदित्यनुगमः ? स्वरूपसत्त्वसाधर्येण सत्ताध्यारोपात् / तहि मिथ्याप्रत्ययोऽयम् ? को नामाह नेति / भिन्नस्वभावेष्वेकानगमो मिथ्यैव, स्वरूपग्रहणन्तु न 'मिथ्या, स्वरूपस्य यथार्थत्वात् / द्रव्यादिष्वपि सत्ताध्यारोपकृत एवास्तु प्रत्ययानुगमः ? नैवम्, असति मुख्येऽध्यारोपस्यासम्भवात् / न चेयं सामान्यादिष्वेव मुख्या, बाधकसम्भवाद् द्रव्यादिषु च तदभावात् / बुद्धिलक्षणत्वमिति / बुद्धिरेव 'लक्षणं=प्रमाणं येषां ते बुद्धिलक्षणाः, विप्रतिपन्नं प्रति सामान्यादिसद्भावे बुद्धिरेव लक्षणं नान्यत्, द्रव्यादिसद्भावे त्वन्यदपि तत्कायं प्रमाणं स्यादित्यर्थः / कश्चित्पुनरेवमाह-बद्धचा लक्ष्यन्ते प्रतीयन्त इति बुद्धिलक्षणाः / तदयुक्तम्, द्रव्यादेरपि स्वबुद्धिलक्षणत्वान्नेदं वैधर्म्यमुक्तं स्यात्।। [टि०] नुपपत्तेर] न्वयस्य चेद्वक्रत्वं तदा 'त्रयः सत्तारहिताः, 'अपरसामान्यरहितत्वात्, "न यदेवं न तदेवं यथा द्रव्यमिति 'व्यतिरेकानमानम / द्रव्यादिषु इति-तस्य बाधकस्याभावात / बुद्धिरेव लक्षणं इति भिन्नेषु गोपिण्डेष एकाकार: प्रत्ययः पिण्डातिरिक्तविषयः एकाकारप्रत्ययत्वात्, वस्त्रचर्मकम्बलेषु नीलप्रत्ययवत् इत्यादिप्रकारेण सर्वेषां [पं०] संशयो जातः / ततस्तद्व्यवच्छेदाय विशेषपरिकल्पनम् / एवं तत्रापि सामान्यं तत्रापि विशेष इत्यनवस्थिते गमनिका / पूर्व सत्ताविशेषसमवायेषु सत्तासम्बन्धो निरस्तः, संप्रति ग़ोत्वाद्यपरसामान्येषु तं निरस्यन्नाह-गोत्वादिष्वपरजातिसम्बन्धेन व्याप्तस्य सत्तासम्बन्धस्य तन्निवृत्तौ निवृत्तिसिद्धिरिति / [अपरजातिसंबंधेनेति सामान्यविशेषवत्त्वेन, तनिवृत्ताविति = अपरसामान्य वृत्तौ, निवृत्तिसिद्धिरिति = ] सत्तासम्बन्धनिवृत्तिसिद्धिरित्यक्षरार्थः / भावार्थस्त्वयम् - यत्र सत्तासम्बन्धस्तत्रापरसामान्यमपि भवति / यथा द्रव्ये / अन्वये हि साधनधर्मोच्चारणादनन्तरं साध्यधर्मोच्चारणे साधनं च सत्तासम्बन्धो व्याप्यत्वात् / व्यतिरेके विपर्ययः / इह तु गोत्वादावपरसामान्यं शाबलेयबाहुलेयत्वादिक निवर्तमानं सत्तासम्बन्धमपि निवर्तयविति / परवाक्यं द्रव्यादिष्वपीत्यादि। [श्रीधरवाक्यं नवमित्यादि। न चेयमितिइयं = सत्ता। तदभावादिति = बाधकाभावात् / सामान्यादिसद्धावे बुद्धिरेव प्रमाणमिति-अनुवृत्तिबुद्धि-व्यावृत्तिबुद्धिइहेति बुद्धयो यथाक्रम सामान्यविशेषसमवायानां प्रमाणमित्यर्थः / बुद्धिरेव लक्षणमिति पाठान्तरम् / तत्र लक्षणशब्देन प्रमाणम् / तत्कार्य प्रमाणं स्यादिति बुद्धिकार्य प्रमाणं भवेदित्यर्थः / प्रमाणं हि सर्वबुद्धिकार्यमिति गमनिका / बुद्धि [कु.] ननु यदि सामान्ये सत्सदिति प्रत्ययेमिर्त्य [मिथ्या] ! तर्हि किं तदसदेवेत्यत आह भिन्नस्वभावेष्विति (कं. 19.12) / यदिदं भिन्नत्वं] तदनुगतिनिष्ठत्वमित्यर्थः। ननु द्रव्यादिष्वपि बुद्धिलक्षणत्वमस्त्येवेत्यत आह - "विप्रतिपन्तं प्रती ति] तत्कार्यमिति / बुद्धिव्यतिरिक्तव्यापकोप (कोप)लक्षणाः प्रतीयन्ते विषयोक्रियन्ते कारणानपेक्षन्ते / यद्यपीदं प्रागभावे नित्यद्रव्ये नित्यगुणेषु वास्ति तथापि त्रयाणां साध्ययं भवत्येवेत्यदोषः / 1 मृषा-कं.१; कं. 2 / 2 सति - कं. 1; कं. 2 / 3 लक्षणं येषां - जे. 1; जे. 2 / 4 चेद् वक्तृत्वं - अ, ब, क; 5 श्रयः - ड; 6 रहितत्वात्-ड; 7 तदेवं तदेवं - अ; तदेवं-ब; 8 व्यतिरेकानुमानत्वम् - अ, ब, क; 9 [ ] एतच्चिह्नान्तर्गतः पाठः 'अ'पुस्तके नास्ति / 10 [ ] एतच्चिह्नान्तर्गतः पाठः 'अ' पुस्तके नास्ति / 11 प्रतीकमिदं कं. पुस्तके नास्ति, विप्रतिपन्नसामान्यादिसद्भावे-इत्यादिकं त्वस्ति - सं.