________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [35] सामान्यादीनां 'त्रयाणामपि स्वात्मसत्त्वं बुद्धिलक्षणत्वमकार्यत्वमकारणत्वमसामान्यविशेषवत्त्वं नित्यत्वमर्थशब्दानभिधेयत्वञ्चेति / न्यायकन्दली [35] सम्प्रति सामान्यादीनां साधर्म्यमाह-सामान्यादीनामिति / स्वात्मैव 'सत्त्वं स्वात्मसत्त्वं स्वरूपं यत्सामान्यादीनां तदेव तेषां सत्त्वम्, न सत्तायोगः सत्त्वम् / एतेन सामान्यादीनां त्रयाणां सामान्यरहितत्वं साधर्म्यमुक्तमित्यर्थः / कथमेतत् ? 'बाधकसद्भावात् 'सत्तायां तावत् सत्ता नास्ति, अनिष्टप्रसङ्गात् / विशेषेष्वपि सामान्यसद्भावे संशयस्यापि सम्भवात् / निर्णयार्थं विशेषानुसरणेऽप्यनवस्थैव / समवायेऽपि सत्ताभ्युपगमे तद्वत्त्यर्थं 'समवायान्तराभ्युपगमादनिष्टापत्तिरेव दूषणम् / गोत्वादिषु त्वपरजातिमत्त्वेन व्याप्तस्य [टि०] [35] “सत्तायामिति--'अनिष्टा अनवस्था। ननु सत्तायामनवस्थानात्सत्ता मा भूत्, गोत्वादौ तु बाधकाभावात्, किं न सत्तेत्याह "गोत्वादिषु तु इति - यत्र सत्तासम्बन्धस्तत्रा'परजातिमत्त्वमिति व्याप्तिः, ततो गोत्वादिसामान्यादपरजातिमत्त्वं व्यावर्तमान सत्तामपि व्यावर्त यतीति / तथा च प्रयोगः विवादाध्यासितं सामान्यं सत्तासामान्यरहितम, अपरजातिरहितत्वात , समवायवदिति / सामान्यविशेषसमवायाः सत्तारहिता: व्यापकरहितत्वाद्, यद्यद् व्यापकरहितं "[तद् तद् व्याप्यरहितं] यथाऽग्निरहितः प्रदेशो " [निर्धूम इत्यनुमानास्त्रिष्वपि सत्तानिरासः / “अथ यच्छब्दविचारा [पं०] [35] अनिष्टप्रसंगादिति = अनवस्थाप्रसंगात् / विशेषेष्वपि सामान्यसद्भावे संशयस्यापि सम्भवादिति - न केवलं निर्णयो भवति क्वचित्संशयोऽपि भवतीत्यपेरर्थः। यथा स्थाण्वादावर्ध्वत्वसामान्ययोगात्संशयो भवति / तत्व्यवच्छेदाय कोटरादि विशेषानसरणम् / एवमिहापि यदि सामान्यं स्यात्तदा संशयोऽपि स्यादिति गमनिका / निर्णयार्थ विशेषानुसरणेऽप्यनवस्थैवेति - न केवलं सामान्यनुसरणेऽनवस्था इत्यपि-शब्दः / विशेषेषु सामान्यप्रवेशात्किल [कु०] [35] ननु स्वात्मसत्वं द्रव्यादिष्वप्यस्तीत्यत आह स्वात्मैवे (पि) [ति] (कं. 19.4) / संशयस्यापि सम्भवादिति (कं. 19.4) "यथा अनेकेषु शुक्लमानीयतामित्युक्ते शुक्लत्वसामान्याक्रान्तत्वाच्छुवलो गुणो न किञ्चिद् व्यावर्तयति एवं विशेषत्वसामान्याक्रान्तविशेषा स्वाश्रयं न व्यावर्तयेयरित्यर्थः / गोत्वादिष्विति (कं. 19.9) * प्रयोगोऽयं गोत्वादीनि न सत्तावन्ति अपरसामान्यरहितत्वात सत्तावदिति / / 1 त्रयाणाम् - कं. 1; कं. 2 कि., दे.। 2 त्वञ्च- दे.। 3 सत्त्वं स्वरूपं -कं. 1; कं. 2 / 4 बाधकसद्भावात् = व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः / रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः -जे. 1 टिप्पण / 5 सामान्ये -कं. 1; कं.२। 6 समवायाभ्यु - कं. 1; कं. 2 / 7. गोत्वादिष्वपर-कं. 1; कं. 2 / 8 प्रतीकमिदं मु. पुस्तकस्य 3 पादटिप्पणे अस्ति। 9 अभीस्था-अ, ब, 10 गोत्वादिषु मु. गोत्वादिषु तु.-जे. 1, जे. 3; 11 पराजितमति-अ, ब; 12 यायति -अ, ब, 13 [ ] एतच्चिह्नान्तर्गतः पाठः 1-पुस्तके नास्ति / 14 [ ] एतच्चिह्नान्तर्गतः पाठः ड पुस्तके नास्ति / 15 अथ शब्द:-अ / 16 अयथानेनेकेषु - आदर्शपुस्तके /