________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [34] द्रव्याश्रितत्वञ्चान्यत्र नित्यद्रव्येभ्यः / न्यायकन्दली [34] 'द्रव्याश्रितत्वञ्चान्यत्र नित्यद्रव्येभ्य इति / नन्वाश्रितत्वं षण्णामित्युक्तं तेनेदं पुनरुक्तम् ? न पुनरुक्तम्, द्रव्योपलक्षितस्याश्रितत्वस्यात्र विवक्षितत्वादिति कश्चित् / तदयुक्तम्, सामान्यादीनामपि द्रव्योपलक्षितस्याश्रितत्वस्य सम्भवान्नेदं 'द्रव्यादित्रयस्य साधर्म्यकथनं स्यात् / तस्मादित्थं व्याख्येयम् / अन्यत्र नित्यद्रव्येभ्य इति द्रव्यग्रहणमुपलक्षणम्, तद्वत्तयोऽन्त्या विशेषास्तेऽपि गृह्यन्ते / नित्यद्रव्याणि तद्गतांश्च विशेषान् परित्यज्य द्रव्य एवाश्रितत्वं द्रव्यादीनां त्रयाणां साध्ययं नापरेषामित्यर्थः / [टि०] [34] नापरेषाम् इति - सामान्यसमवायोर्गुणकर्मस्वपि भावात् द्रव्ये एवेत्येवकारेण व्यवच्छेदः / विशेषाणां द्रव्य एवाश्रितत्वमस्तीति 'चतुर्णामेव साधर्म्य स्यान्न त्रयाणामिति सदपि साधर्म्य तेषामुपलक्षणव्याख्यानेन निराकृतम् / अत्र च सकलपदार्थापेक्षया साधर्म्यमिति 'द्रव्यत्वस्य द्रव्य एव वृत्तावपि न दोषः / अत एव चान्यत्र नित्यद्रव्येभ्य इत्युक्तम् / “इत्थं कन्दली कृता भाष्यं समर्थितम् / केनचित्तु द्रव्याश्रितत्वं द्रव्यसमवायकारणतेति व्याख्यातं तेन द्रव्यत्वादि सामान्यविशेषविशेषपदार्थयोरप्रसङ्गः / नित्यत्वेनानयोः कारणाभावात् / तथापि नित्यगुणेष्वभावाद् व्यापकत्वेऽन्यत्र नित्यद्रव्येभ्य इत्युपलक्षणं कृतम् / नित्यद्रव्याणि तद्गतांश्च नित्यगुणान् विहायेदं "साधर्म्यमिति / तदत्र नोपयोगि, विशेषादिव्यवच्छेदार्थमनेनोपलक्षणस्य कृतत्वात् / / [पं०] [34] द्रव्याश्रितत्वं चान्यत्र नित्यद्रव्येभ्य इति -- अत्रेदमेव व्याख्यानं निर्वहति / तद्यथा द्रव्याश्रितत्वं च द्रव्यसमवायिकारणकता, एवं च द्रव्यत्वादिसामान्यविशेषपदार्थयोरप्रसंगः / नित्यत्वेनानयोर्द्रव्यूकारणाभावात् / तथापि नित्यगुणेष्वसभवादव्यापकमत आह-अन्यत्र नित्यद्रव्येभ्य इति नित्यद्रव्येत्युपलक्षणम् / नित्यगुणेत्यपि द्रष्टव्यम् / ततो नित्यद्रव्याणि मित्यगुणांश्च विहाय द्रव्यगुणकर्माणामेवेदं साधर्म्यमित्यर्थः / द्रव्योपलक्षितस्याश्रितत्वस्यात्र विवक्षितत्वादिति-पूर्वत्र सामान्येनैवाश्रितत्वमुक्तम् / इह तु द्रव्ये इत्युभयोविशेष इत्यर्थः / कश्चिदिति-व्योमशिवः / व्रव्ये एवाश्रितत्वमिति- द्रव्यसमवायिकारणकत्वम् . द्रव्यादिनां व्याणां साधयं नापरेषामिति / सामान्यसमवाययोगंणकर्मस्यपि भावान्न द्रव्य एवाश्रितत्वमस्ति / विशेषास्त्वपलक्षणव्याख्यया परित्यक्ताः / इति त्रयाणां द्रव्य एवाश्रितत्वं साधर्म्यमिति भावः / [कु०] [34] निस्यद्रव्याणि तद्गतांश्न विशेषान् "विहायेति (कं. 18:24) द्रव्य एवाश्रितत्वे साधर्म्य द्रव्यादीनां त्रयाणां चिन्त्यमाने नित्यद्रव्याणि[अनुत्पाद्यानि मनाश्रितत्वात् / द्रव्यगता विशेषा द्रव्यत्वपृथिवीत्वादयोऽवान्तरविशेषाभ [अनु] स्पायाः / तेषामपि द्रव्य एवाश्रितत्वेन त्रयाणामित्युक्तविरोधप्रसङ्गादिति भावः / द्रव्याश्रितत्वं द्रव्यसमवायिकारणकस्वं नित्यगुणांश्च विहाय त्रयाणां साधर्म्यमिति तु व्याख्यानं (द्यायः) ध्येयम। 1 द्रव्य एवाश्रितत्वं समवापिकारणजन्यत्वं द्रव्यजन्पत्वं-टिप्पण. जे.१। 2 द्रव्यादित्रयसाधर्म्यकथनं-कं.१; कं.२ / 3 कारण-अ, ब, 4 चतुर्था-अ,; 5 त्रयामिति-अ, ब; 6 तदपि-ड; 7 द्रव्य एव-अ%B 8 कृतं-अ, ब, क; 9 कृतभाष्यं-ड; 1. द्रव्यादिसामान्यविशेषपदार्थयो-अ, ब; 11 तथापि गुणेष्वभावात्-ड; 12 नित्यान् गुणान् - ड; 13 साधयेति - अ; 14 परित्यज्य - कं /