________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाग्यम् [33] कारणत्वञ्चान्यत्र 'पारिमाण्डल्यादिभ्यः / न्यायकन्दली यद्यपि विनाशो वस्तुकाले नास्ति, तथापि प्रमाणान्तरसिद्धसद्भावो भवत्येव विशेषणम्, अनित्यो घट इति प्रत्येतुरेकत्वात्। तथा च लोके विनाशि शरीरमध्रुवा विषया इति / [33] कारणत्वञ्चान्यत्र पारिमाण्डल्यादिभ्य इति / पारिमाण्डल्यमिति परमाणुपरिमाणम्, आदिशब्दाद् द्वयणुकपरिमाणम्, आकाशकालदिगात्मनां विभुत्व'मन्त्यः शब्दः, मनःपरिमाणं परत्वापरत्वे द्विपृथक्त्वमन्त्यावविपरिमाणञ्चेत्यादिग्राह्यम् / एतानि परित्यज्यापरेषां द्रव्यादीनां त्रयाणां कारणत्वं समवाय्यसमवायिकारणत्वम् / यद्यपि द्रव्यस्य नासमवायिकारणत्वम्, न च समवायिकारणत्वं गुणकर्मणोः, तथापि निमित्तकारणविलक्षणतयेदं साधर्म्यमुक्तम् / [टि०] प्रतीयते, प्रमाणान्तरेण जनितोत्पाद इति पर्यवसानात् / ततश्च प्रमाणान्तरैर भावस्योत्पत्तिर्न घटते / सत्पन्ने वाभावेऽनित्यो घट इति वचनकाल एव घटस्यादर्शनप्रसङ्ग इति / सत्यम् / प्रमाणान्तरेण सिद्धो ज्ञातो भविष्यद्रपतया सद्भावो यस्येत्यदोषः / [33] तथापि निमित्तकारणेति - ननु निमित्तकारणविलक्षण त्वं द्रव्यादि त्रयस्यापि नास्ति, तेषामपि ज्ञानादिनिमित्तत्वात् ? सत्यम्, नात्र द्रव्यादित्रयस्य निमित्तकारणवैलक्षण्यं विधीयते '[किन्तु निमित्तकारणविलक्षणं यत्कारणत्वं तत् त्र्याणामेवास्तीति विधीयते / / [पं०]वस्तुकाले नास्तीति-यदा हि विनाशस्तदा वस्तु नास्ति, यदा च वस्तु तदा विनाशो ना[स्ति] / प्रमाणान्तरसिद्धसद्भाव इति प्रमाणान्तरेण कार्यत्वाख्येन सिद्धः ज्ञातः सद्भावो यस्य विनाशस्य स तथा / प्रत्येतुरेकत्वादिति- येनैव * प्रमात्राऽन्यप्रमाणेन प्रतीतो विनाशः स एव घटादौ भावितया विनाशं प्रत्येति / ततश्च व्यवहरति-अनित्यो घट इत्यर्थः / [33] पारिमाण्डल्यमिति - परिमण्डलाः परमाणवस्तेषामिदं परिमाणं पारिमाण्डल्यम् / विभुत्वमिति महत्परिमाणम् / अन्त्यः शब्द इति - यः श्रोत्रदेशमागत्य ग्राह्यो भवति। मनःपरिमाणमिति अणुपरिमाणं मनः / द्विपृथक्त्वमिति - इदमस्मात्पृथगिति एक पृथक्त्वम्, इमौ पृथगिति द्विपृथक्त्वम् / एतच्च त्र्यादिपृथक्त्वे कार्ये नासमवायिकारणम् / एकपृथक्त्वानामेव त्र्यादिपृथक्त्वोत्पत्तावसमवायिकारणत्वात् / एतच्च त्रिपृथक्त्वाद्युपलक्षणमिति परिभावनीयम् / अन्त्यावयविपरिमाणं चेति-अन्त्यो हि तन्तु रम्भकः / [50] [33] अन्त्यावयवि-परिमाणं चेत्यादि ग्राह्यमित्यादि (कं. 18.15) ग्रहणेन विनश्यदवस्थद्रव्यसंयोगविभागकर्माणि चरमः संस्कारो शानं च गृह्यन्ते / नन पारिमाण्डल्यादीनि सामान्यादीनि च ज्ञानं विषयतयोत्पादयन्ति कारणान्येव तत्कथं पारिमाण्डल्यादिव्यतिरिक्तानां त्रयाणामेव कारणत्वमत आह समवाय्यसमवायोति (कं. 18.16) / 1 पारिमाण्डिल्यादिभ्यः-कि.। 2 तथा लोके- कं.१; कं. 2 / 3 मन्त्यशब्दमनः° - कं. 1; कं. 2 / 4 भावश्चोत्पत्ति-अ, ब; 5 त्वे - अ, ब, क; 6 'त्रयस्यापि' इति ड पुस्तके नास्ति। 7 [ ] एत• चिह्नान्तर्गतः पाठः ड पुस्तके नास्ति / 8 अन्त्यशब्द - कं.।