________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली स्वात्मलाभः 'कार्यत्वमिति लक्षणम्, व्यापकत्वात् / प्राक्प्रध्वंसाभावोपलक्षिता वस्तुनः सत्तैवानित्यत्वमिति केचित् / तदयुक्तम्, अप्रतीतेः। अनित्य इति विनाशीत्येवं लोकः प्रत्येति, न तु सत्ताविशिष्टताम् / उत्पत्तिविनाशयोगित्वमित्यपरः। तदप्यसारम्, प्रागभावे उत्पत्तेरभावात्, तस्याप्यनित्यत्वेन लोके सम्प्रतिपत्तेः / तस्मात् स्वरूपविनाश एवानित्यत्वमिति / यथोक्तम् - “अनित्यत्वं 'विनाशाख्यं क्रियासामान्यमुच्यते" इति / [टि०] भावेति - अत्र प्रागभावोप लक्षिता सत्ता कार्यत्वं प्रध्वंसाभावोपलक्षिताऽनित्यत्वमिति दृष्टव्यम् / [अत्र चोभयत्रापि प्राक् प्रध्वंसाभावोपलक्षिता या सत्ता सैवाकाशादौ वर्तत 'इत्यतिव्यापकत्वम् / तस्मात्स्वरूपनाश एव इति - नन्वत्र भाष्ये कारणवतामेवानित्यत्वं] प्रतिपादितम्, स्वरूपविनाशलक्षणस्य त्वनित्यत्वस्य कारण रहितेऽपि प्रागभावे सम्भवात्भाष्यविरोधः? न, द्रव्यगुणकर्मणां साधर्म्य निरूप्यमाणे 'केषां द्रव्यादीनां साधर्म्यम्', इत्यपेक्षायामुक्तं 'कारणवतामेव इति / द्रव्यादीनां कारणवतामेवेदं साधर्म्य नान्येषामित्येवात्र तात्पर्यम् / अनित्यत्वं विनाशाख्यति "विनाशाख्या क्रिया प्रध्वंसाभावस्तस्याः "[सामान्यमप्रध्वस्तसामर्थ्य ] व्यावृत्तत्वेनोपचरितं तदनित्यत्वमित्यर्थः / ननु घटे विद्यमानेऽमुत्पन्न एव प्रध्वंसः कथं विशेषणमित्याह यद्यपि विनाश इति / प्रमाणान्तरं कार्यत्वादि / ननु सदित्यत्र वर्तमानकाल'शेतृ' प्रत्ययस्ततश्च सतो भवनं सद्भावः; सिद्धो निष्पन्नः सद्भावो यस्येति व्युत्पत्त्याऽभावस्य विद्यमानत्वं [पं०] प्रध्वंसाभावः स्वकारणे मुद्गरादौ समवेतः / मुद्गरादेविनाशप्रसंगादनुभवाभावाच्च / नापि प्रागसति प्रध्वंसाभावे पश्चात्सत्ता समवेता भवति / तथा सति वस्तुरूपत्वापत्तेः, तस्याश्वावस्तुरूपत्वात् / __ नम्वनित्यत्वं किमुच्यते ? तत्र ब्रूते-प्राक्प्रध्वंसेत्यादि / वस्तुनः सत्तैवेति-सत्ता स्वरूपसत्त्वम्, न तु महासत्तेति द्रष्टव्यम् / केचिदिति- उद्योतकराचार्याः / अपर इति व्योमशिवः / प्रागभावे उत्पत्तेरभावादिति-प्रागभावो हि अनादि: सान्तः / यथोक्तमिति - उक्तं चेत्यर्थः। विनाशाख्यं क्रियासामान्यमिति - भावाभाववति / यद्यपि विनाशो [कु०] [विशेष्यत्व मिहोपलक्षणत्वं तत्र च बुद्धिसिद्धत्वमेव प्रयोजकं न तूपलक्ष्यसमानकालत्वम् ; इतरथा कुरुक्षेत्रत्वादिव्यवहारविलोपप्रसङ्ग इत्यर्थः / ___ स्यादेतत् पूर्वावधिग [ज] त्वरूपं कार्यत्वं प्रध्वंसेऽप्यस्ति उत्तरावधिसम्बन्धरूपमनित्यत्वं प्रागभावेऽप्यस्ति / ते एव च कार्यत्वानित्यत्वे तद्गतानित्य त्वरूपिते तत्कथं त्रयाणां साधर्म्यम् एते कथं च कारणवतामेवेति नियमः संगच्छते ? कारणविरहिगोऽपि प्रागभावस्यानित्यत्वादिति / नैष दोषः त्रयाणामिति सङ्ख्यया सामान्यादीनामेव भावरूपाणां पर्यदासस्याभिमतत्वात् / अयं च विशेषाणामित्यधिकारादवसेय इति / 1 कार्यत्वलक्षणम् --जे. 1 / 2 लोकसम्प्रतिपत्तेः-जे. 1; जे. 3 / 3 विनाशाख्य-जे. 1; जे. 3 / 4 लक्षिप्राप्ता-अ, 5 [ ] एतच्चिह्रान्तर्गतः पाठः अबपुस्तकयो स्ति। 6 इत्यव्यापकत्वम् - अ, ब, क; 7 रहितत्वेऽपि। 8 प्रशस्तपादस्थमेतत्प्रतीकम् / 9 मित्येवाव-अ। 10 विनाशाख्यम् मु. किन्तु विनाशाख्यजे. 1, जे. 3; 11 [ ] एतत् चिह्नान्तर्गतः पाठः अबपुस्तकयो स्ति; सामान्यमप्रध्वसत ड; 12 शतृ शब्दप्रत्ययस्ततो-अ, ब, क, प्रत्ययस्ततश्च सतो-33;