________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [32] कार्यत्वानित्यत्वे कारणवतामेव / न्यायकन्दली धर्माधर्मकर्तृत्वञ्चेति / धर्माधर्मोत्पत्तिनिमित्तत्वं त्रयाणाम्, 'तथा हि भमिरेकैव दीयमानापह्रियमाणा च धर्माधर्मयोः कारणम् / एकः संयोगो द्वयोः कारणम्, यथा कपिलास्पर्शो नरास्थिस्पर्शश्च / एवं कर्माप्युभयकारणम्, 'यथा तीर्थगमनं शौण्डिकगृहगमनञ्च, एवमन्यदप्यूह्यम् / धर्माधर्मकर्तृत्वमिति त्वप्रत्ययेन धर्माधर्मजननं प्रति सेषां निजा शक्तिरुच्यते / ननु जातिरपि तयोः कारणम् ? न, तस्याः स्वाश्रयव्यवच्छेदमात्रेण चरितार्थत्वात् / / [32] कार्यत्वानित्यत्वे कारणवतामेव / येषां द्रव्यादीनामुत्पत्तिकारणमस्ति तेषां कार्य्यत्वमनित्यत्वञ्च धर्मो न सर्वेषामित्यर्थः। 'स्वकारणे समवायः, प्रागसतः सत्तासमवायो वा कार्यात्वमित्येके / तदयुक्तम्, प्रध्वंसे तदभावात् / तस्मात् कारणाधीनः [टि०] [32] कारणाधीनः स्वात्मे इति - अत्र आत्मशब्दस्य स्वरूपवाचकत्वात् स्वशब्दस्य चात्मीयवाचकत्वात् न 'स्वशब्दस्याधिक्यम् / नन्वत्रापि लाभ इति पदेन प्राप्तिरेवाभिधीयते, सा बोत्पत्तिरेव, उत्पत्तिश्च 'प्रागसतः . सत्तासत्तासमवायो वा? तथा च पूर्वदोषप्रसङ्गः / न, कारणाधीनः स्वात्मलाभः कालसम्बन्ध इत्यर्थः / प्राक प्रध्वंसा [पं०] पूर्वमसत इदानीं कारण सामर्थ्यादुत्पादवतो वस्तुतः सत्तेत्यर्थः / न च खरविषाणादिष्वतिप्रसङ्ग इति-प्रसंगः सत्ताप्रसंगः / एकः संयोगो द्वयोः कारणमिति न गुणेषु मध्ये कश्चिद्गुणः पापायैव कश्चिच्च धर्मायैव, किन्त्वेकोऽपि संयोगो द्वयोरपि कारणम् / तेषां निजा शक्तिरुच्यत इति-तेषां व्यक्तिरूपाणां द्रव्यादीनां त्रयाणाम् / परवाक्यं ननु जातिरपि तयोः कारणमिति -गोजातिहि हस्तपादाभ्यां स्पर्श धर्माधर्मयोः कारणमिति पराशयः / श्रीधरः नेत्यादि / तस्याः स्वाश्रयव्यवच्छेदमात्रेण चरितार्थत्वादिति कोऽर्थः ? न खलु सा पार्थिवगोव्यक्तिमंतरेण केवलैव स्पर्शहेतुः, किन्तु तया व्यक्तिरवच्छेदनीया, तावतैव चासौ चरितार्थः / तस्माज्जातिरपि तयोः कारणमिति न वक्तव्यमित्यर्थः / [32] ननु कार्यत्वं किमुच्यते? तत्र ब्रूते स्वकार[णे]समवाय इत्यादि-स्वकारणसमवायो यथा तन्तुषु पट: समवेतः। एकेति = व्योमशिवपादाः। प्रध्वंसे तदभावादिति]-प्रध्वंसे = प्रध्वंसाभावे, तदभावात् = स्वकारणसमवायाभावात्, प्रागसतः सत्तासमवायाभावाच्च / अयमर्थः प्रध्वंसाभावो हि कार्यः / अथ च न तन्तुषु पर इव [कु०] [32] एकदेशिमां कार्यत्वव्युत्पादने दोषं प्रदर्शयन् स्वाभिमतं कार्यत्वं निर्धारयति स्वकारणेति (कं. 18.2) / एवमेवानित्यत्वं निर्धारयति 'प्रागभावेति (कं. 18.7) / ननु यदा घटस्तदा न (1) विनाशः, यदा विनाशस्तदा न घटस्ततः कथमनयोविशेषणविशेष्यभाव इत्यत आह प्रत्येतुरेकत्वादिति (कं. 18.11) / विशेषणविशेषणत्व 1 यथा - कं. 1; कं. 2 / 2 'यथा' - जे. 1; जे. 3 पुस्तकयो स्ति। 3 स्वकारण - जे. 3 / 4 न शब्दस्याधिक्यम् - ड; 5 प्राग्सतः-अ; 6 प्रागभावे - कं.।