________________ 58 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली द्रव्यादीनां त्रयाणामपि सत्तासम्बन्धः सत्तया सामान्येन सह सम्बन्धः समवायरूपो द्रव्यगुणकर्मणां साधर्म्यम् / यथा चैतेषु सत्ता'सम्बन्धस्तथोपपादितम् / इदन्त्विह निरूप्यते-कि 'सत्तासम्बन्धः सतोऽसतो वा ? सतश्चेत्प्राक् सत्तासम्बन्धात् सन्नेवासावर्थ इति व्यर्था सत्ता? अथासतः सम्बन्धः? खरविषाणादिष्वपि सत्ता स्यात् / नित्येषु तावत्पूर्वापरभावानभ्युपगमः। 'अनित्येषु तु प्रागसत एव सत्ता कारणसामर्थ्यात् / न च खरविषाणादिष्वतिप्रसङ्गः, तदुत्पत्तौ कस्यचित्सामर्थ्याभावात् / / अन्यदपि साधर्म्य द्रव्यादीनां त्रयाणां 'दइदिति-सामान्यविशेषवत्त्वञ्चेति / अनुवृत्तिव्यावृत्तिहेतुत्वात् सामान्यविशेषा द्रव्यत्वादयस्तैः सह सम्बन्धो द्रव्यादीनाम्, स च समवाय एव / स्वसमयार्थशब्दाभिधेय त्वञ्चेति / वैशेषिकः स्वयं व्यवहाराय यः सङ्केतः कृतोऽस्मिन् शास्त्रे 'अर्थशब्दाद् द्रव्यगुणकर्माणि प्रतिपत्तव्यानि' इति, तेन द्रव्यादीनि त्रीणि निरुपपदेनार्थशब्देनोच्यन्ते / [टि०] ननु यथा जातिळवच्छेदमात्रेण चरितार्था तथा द्रव्यगुणावपि कर्मादिरूपत्वेन [दानस्पर्शादिक्रियावच्छेकत्वेन] चरितार्थो न तु "धर्मकारणम्, दानस्पर्शादि"क्रियास्तु धर्मकारणमिति कथं साधर्म्य त्रयाणाम् ? न वाच्यम्, व्यापारस्य "[व्यापारविषयस्य ] कारणत्वात् क्रियाधारत्वेन तेषामपि कारणत्वम, सामान्यस्य तु नित्यत्वेनाव्यापारविषयत्वान्न कारणत्वम् / [कु०] ननु कर्तृमत्वं कृतिमत्त्वं, कृतिश्च प्रयत्नः; स चात्मन एव न द्रव्यादीनां त्रयाणामित्यत आह "धर्माधर्मयोरिति (कं. 17.19) / कारणमात्रे कर्तृत्वोपचारः कारणावच्छेदकसामान्यादिभ्यो विशेषप्रदर्शनायेति भावः / तथा हि एकैकस्येतरसहकृतस्योभयकर्तृत्वं यथाक्रममुदाहृतमिति नोदाहरणसाङ्कर्यशङ्कावकाशः / एवमन्यदपि यथा एकमेव गाङ्गमम्भः स्तूयमानं निन्द्यमानं च यथाक्रमं धर्माधर्महेतुरित्यादि निजशक्तिर्वस्तुस्वरूपं सहकारि वा चरितार्थत्वात् / 'गां दद्याद्' इत्यादी गोत्वादेरनियतदेशकालस्य दानाद्यन्व[या]ये गो तदन्व[य] व्यवच्छेदमात्रे व्यापारः तदन्वयिन एव धर्माधर्मकर्तृत्वमिति भावः / 1 त्रयाणां-कं. 1, कं. 2 / 2 सामान्यन सम्बन्ध:- कं. 1, कं.२। 3 सम्भव - जे. 1, जे. 3 / 4 कि सतः सत्तासम्बन्धोऽसतो वा यदि सतः-जे. 1, जे. 3 / 5 अनित्येषु प्रागसत-कं. 1, कं. 2 / 6 विषाणादिषु प्रसङ्ग-जे. 1, जे. 3 / 7 कथयति - कं. 1, कं. 2 / 8 त्वं - जे. 3 / 9 [ ] एतच्चिह्नान्तर्गतः पाठः अबपुस्तकयो स्ति / 10 कर्म-भ, ब; 11 क्रियासु-अ; 12 [ ] एतच्चिह्नान्तर्गतः पाठः अबपुस्तकयो र्नास्ति। 13 धर्माधर्मकर्तृत्वं-कं.।