________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [31] द्रव्यादीनां त्रयाणामपि सत्तासम्बन्धः, सामान्यविशेषवत्त्वम्, स्वसमयार्थशब्दाभिधेयत्वम्, धर्माधर्मकर्तृत्वञ्च / न्यायकन्दली [31] गुणादीनां समवायान्तानां साधर्म्यमाह-गुणादीनामिति / निर्गुणत्वं गुणाभावविशिष्टत्वम्, निष्क्रियत्वं क्रियाभावविशिष्टत्वम्, 'यथा च भावोऽभावस्य विशेषणं स्वविशिष्टप्रत्ययजननादेवमभावोऽपि। तथा चोपनिबद्धमघट भूतलमिति / भावाभावयोरसम्बन्धात् कथमभावो विशेषणमिति चेदस्ति तावदयं विशिष्टप्रत्ययः, तद्दर्शनात्सम्बन्धमपि कल्पयिष्यामः / यदि सम्बद्धमेव विशेषणं मन्यसे / [टि०] [31] अस्ति तावदयम् इति - स्वरूपप्रत्यासत्तिरूपः सम्बन्धः कल्प्यते / संयोगाभावो हि संयुक्तवत्प्रतिभासते, समवायाभावस्तु समवेतवदिति / ननु यद्यसम्बद्धमपि विशेषणं तहि गृह स्थितेनापि दण्डेन दण्डी इत्युच्येत् ? न वाच्यम्, विशिष्टप्रत्ययो यत्र दृश्यते तत्रैवं मन्यते नान्यत्रेति / यथा चैतेषु इति - सत्तासम्भवो तु वृक्षप्रत्ययकारणत्वेन / अनित्येषु 'तु इति - कारणैहि यदुत्पाद्यते तदसदेवोत्पाद्यते इति / ननु पदार्थान्तं द्वयी गतिः, भावरूपत्वं वा स्यादभावरूपत्वं वा, तत्र [सत्ता भावरूपं पदार्थमालिङ्गति? अभावरूपं वा? ] नाद्यः सत्तावैयर्थ्यप्रसङ्गात्, नापरो निःस्वरूपेण सम्बन्धायोगात् / द्वयोहि सम्बन्धो दृष्टः / सत्यम्, इदृशमेव कारगानां सामर्थ्य यत् सत्तालिङ्गितमेवोत्पादयन्तीति / [पं०] [31] 'एतेष्विति = द्रव्यगुणकर्मसु / इदं त्विह निरूप्यत इति सत्तासम्बन्धसमर्थनेनेति हृदयम् / श्रीधर उत्तरयति नित्येषु तावदित्यादि / अनित्येषु प्रागसत एव सत्तेति कोऽर्थः ? न सतः सत्ता, नाप्यसतः किन्तु प्रागसतः= [कु०] [31] नास्तिकवतण्डिकानां मतेन दूषणमाशङ्कयते इदं त्विति (कं. 17.10) / परिहरति नित्येष्विति (कं. 17.12) / अयमभिप्रायः - अयं विकल्पः समवायस्याङ्गीकारेऽनङ्गीकारे वा व्याहन्यते / अङ्गीकारे तावदयुतसिद्धया विरोधः / अ[न]ङ्गीकारे तु सम्बन्धव्यवहारविरोध इति / कार्यस्य प्राग[भाव] त्वाविशेषे शशविषाणाद्युत्पत्तिप्रसङ्गः परिविदिष्यते तत्राह "कारणसामर्थ्यादिति (कं. 17.13) / अनुवृत्तिव्यावृत्तिहेतुत्वादिति (कं. 17.15) द्रव्यत्वं पृथिव्यादिष्वनुवृत्तिहेतुः, गुणकर्माभ्यां व्यावृत्तिहेतुः; एवं गुणत्वमपि रूपादिष्वनुवृत्तिहेतुः द्रव्यकर्माभ्यां व्यावृत्तिहेतुरित्यादि / 1 यथा भावो-कं. 1, कं.२। 2 असम्बद्धमेव-जे.१। 3 यद्यसम्बन्धमपि-अ; 4 स्थितेनापिण्डेन-अ, ब; 5 तत्रैव - अ, ब, क; 6 'तु' मु. पुस्तके नास्ति, किन्तु - जे. 1, जे. 3 इत्यत्रास्ति / 7 द्वितीय -- अ, ब; 8[ ] एतच्चिह्नान्तर्गतः पाठः अबपुस्तकयो स्ति। 9 चैतेषु-कं.। 10 सत्ताकारणसामर्थ्याद् - कं. 1 /