________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् द्रव्यादीनां 'पञ्चानामपि समवायित्वमनेकत्वञ्च / गुणादीनां पञ्चानामपि निर्गुणत्वनिष्क्रियत्वे / न्यायकन्दली द्रव्यादीनां विशेषान्तानां साधर्म्य साधयति / समवायित्वं समवायलक्षणा वृत्तिः। अनेकत्वं परस्पर भिन्नत्वं भिन्नत्वं चेतरेतरव्यावृत्तं स्वरूपमेव / द्रव्यादीनामित्युक्ते समवायोऽपि गृह्येत, तदर्थं पञ्चानामित्युक्तम् / पञ्चानामित्युक्ते च केषामिति न ज्ञायते तदर्थ द्रव्यादीनामिति / [टि०] समवायलक्षणावृत्तिः इति / समवायरूप: सम्बन्धः पञ्चानामप्यस्ति, आकाशादीनामाधारंभूतानां कार्यद्रव्यादीनां गुणादीनां चाधेयरूपतयेति विशेषः / [पं०] द्रव्यादीनां विशेषान्तानामिति - समवायस्य तु समवायो नास्तीत्यभिप्रायः / अनेकत्वमिति - पृथिव्यादिभिः भेदैर्द्रव्यादीनां पञ्चानामनेकत्वम / समवायस्य तु न, एकत्वात् / ननु गुणाभावक्रियाऽभावौ कथं विशेषणं येन तद्विशिष्टत्वमुच्यते - अत्राह 'यथा वेत्यादि / भावोऽभावस्य विशेषणमिति - सघटं भूतलमित्यादौ / तथा चोपनिबद्धमिति - तस्तैः शास्त्रकारैः प्रतिपादितम् / सम्बन्धमपीति = विशेषणविशेष्यभावलक्षणम। कल्पयिष्याम इति इहैव द्रव्यपदार्थे / उत्तरत्र यदि संबद्धमेव विशेषणं मन्यस इति - अनेनेत्यावेदयति यदसम्बद्धमपि विशेषणं भवति यथा श्रेहर्ष देवकुलम् / [कु.] अभावस्य तुच्छत्वात्कथं विशिष्टव्यवहारहेतुत्वमित्यत आह यथा भाव इति (कं. 16.25) / अयमभिसन्धिः किमिदमभावस्य तुच्छत्वम् ? प्रमाणगम्यत्वविरहो वा विधिप्रत्ययविरहो वा ? नाद्यः भावग्राहकैरेव चौरव्याघ्राद्यभावाग्रहणे प्रवृत्तिविलापप्रसङ्गात् / नापि द्वितीयः निषेधव्यवहाराविषयतया भावस्यापि तुच्छत्वप्रसङ्गात् / भावाभावयोरिति (कं. 17.2) संयोगादिसम्बन्धवतामेव दण्डादीनां विशेषणत्वदर्शनादभावस्य तदभावादभावादयुक्तं विशेषणत्वमिति भावः / अस्ति तावदिति (कं. 17.2) विशेषणभावस्य सम्बन्धान्तरपूर्व कत्वानुमानस्य समवाये भग्नत्वात स्वरूपोपलेष एव विशेषणत्वे प्रयोजकः, स च विशिष्टप्रत्ययरूपकार्योन्नेय इति भावः / असम्बद्धमेवेति (कं. 17.3) कल्पनालाघवायेति / विशेषः शेिषः।। 1 पञ्चानां समवायित्व-कं. 1, कं. 2 / 2 साधयं समवायित्वं -जे. 1, जे. 2 / मितरेतरव्यावृत्तं-कं. 1, कं. 3 / 4 शेष:-अ, ब, क; 5 यथा--भावो-कं.। 3 परस्परविभिन्नत्व६ सम्बद्धमेव-कं.।