________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् आश्रितत्वञ्चान्यत्र नित्यद्रव्येभ्यः / न्यायकन्दली वस्तुनो यद्यत् स्वरूपं तदेव तस्यास्तित्वम् / अभिधेयत्वमप्यभिधानप्रतिपादनयोग्यत्वम्, तच्च वस्तुनः स्वरूपमेव / ज्ञेयत्वं ज्ञानग्रहणयोग्यत्वं तदपि स्वरूपमेव / भावभावस्य स्वरूपमेवावस्थाभेदेन ज्ञेयत्वमभिधेयत्वञ्चोच्यते / आश्रितत्वञ्च परतन्त्रतयोपलब्धिः, न समवायलक्षणा वृत्तिः, समवाये तदभावात् / इवञ्चाश्रितत्वं चतुविधेषु परमाणुषु आकाशकालदिगात्ममनःसु नास्तीत्याह-अन्यत्र नित्यद्रव्येभ्य इप्ति। ये तु 'धम्मस्तिद व्यतिरिक्तानिच्छन्ति तेषामेकस्मिन समस्तवस्तव्यापिन्यस्तीतिप्रत्ययहेतावस्तित्वे कल्पिते द्रव्यादिषु सत्तावैयर्थ्यम् / अथास्तित्वं प्रतिवस्तु भिद्यते तवा सत्कल्पमावयर्थ्यम्, सत्तायाः स्वरूपसत्तायाश्च सदिति प्रत्ययोपपत्तेः / येषान्तु भावस्वरूपमेवास्तित्वं न तेषां व्यर्था सत्ता, स्वरूपस्यानुवृत्तिप्रत्ययहेतुत्वाभावात् / 'नाप्यस्तित्वमनर्थकं निःस्वरूपे सत्तायाः समवायाभावादित्युभयमुपपद्यते / [टि०] द्रव्यादित्रये महासामान्यात् सामान्या दित्रये च स्वरूपसत्त्वाद् अनुवृत्तप्रत्ययोपपत्तेरस्तित्वं तृतीयं धर्मान्तरं नाभ्युपेयं योऽपि हि षटपदार्थवत्तिमत्वं धर्मान्तरमिच्छति तेनापि स्वरूपसत्त्वमभ्युपेयं, निःस्वरूपे शशविषाणादौ सत्तासमवायायोगादिति / ननु स्वरूपमेवास्तित्वं यद्यभ्युपगम्यते तदापि किं सत्तासामान्येन ? स्वरूपसत्त्वादे'वानुवृत्तप्रत्ययोपपत्तेः / अथानुवृत्तप्रत्ययार्थं सत्ताभ्युपगमस्तहि किं स्वरूपसत्त्वेन इत्याह येषां तु इत्यादि / कि०] यस्येति (कं. 16.6) / ज्ञानग्रहणयोग्यत्वमिति (कं.१६.७) ज्ञानधर्माभावाभावस्येति / एकमेव वस्तुपाधिभेदाद्भिनव्यवहारविषयं, यथैक एव पिता पुत्रश्चेति भावः / यद्यप्यभिधेयत्वज्ञेयत्वे भावाभावसाधारण तथाप्यभाववैधानभिधानादविरोध: / ___ सत्तावैयर्थ्यमिति (कं. 16.14) तेनैव सत्प्रत्ययस्यानुवृत्तेः सत्तायां प्रमाणाभाव इत्यर्थः / स्वरूपस्यानुवृत्ति प्रत्यये हेतुत्वाभावादिति (कं. 16.16) मुख्याभाव उपचारस्याप्यशक्यत्वादित्यर्थः / .. समवायित्वमाश्रितत्वाद्विविच्य व्याचष्टे समवायलक्षणावृत्तिरिति (कं. 16.19) / अनेकत्वं बहुत्वसङ्ख्यागुणादिष्टगुणेषु विरुद्धत्यत आह परस्परविभिन्नत्वमिति (कं. 16.20) / 1 स्वरूपमेव - कं. 1, कं. 2; भावस्वरूपमेवावस्थाभेदेन-कं. 1, कं. 3 / 2 धर्मान् व्यतिरिक्तान-कं. 1, कं. 2 / 3 न चास्तित्व-जे. 1, जे. 3 / 4 इत्यादि त्रये एव-अ; 5 वानुप्तप्रत्ययोपपत्ते-अ, ब / 6 यद्यपि कं, पुस्तके नायं पाठस्तथापि पादटिप्पणे ज्ञेयत्वं ज्ञानग्रहणयोग्यत्वं तदपि स्वरूपमेव इत्यधिकं रापू. इत्यनेनान्यत्रादर्शपुस्तके - पाठ उपलभ्यते-कं.। 7 प्रत्यय - कं.।