________________ 54 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् [30]] प्रशस्तपादभाष्यम् __षण्णामपि पदार्थानां साधय॑मस्तित्वाभिधेयत्वज्ञेयत्वम् / न्यायकन्दली [30] यद्यपि धर्माः षट्पदार्थेभ्यो न व्यतिरिच्यन्ते, किन्तु त एव अन्योन्यापेक्षया धर्मा धम्मिणश्च भवन्तीति / तथापि तेषां 'धम्मिरूपतया परिज्ञानार्थं पृथगुद्देश करोति-षण्णामपीति / अस्तित्वं स्वरूपवस्वम्, षण्णामपि साधर्म्यम्, 'यस्य यस्य [टि०] [ विशेषलक्षणम् / ] अत्यन्तव्यावृत्तेति :- ननु उरणसमूह मध्यासीनस्वस्वोरणपरिग्रहे कमप्यत्यन्तव्यावृत्तबुद्धिहेतुविशेषं तथाभूतरोमस्तोमादिकमालो कन्त एव तद्विदः, ततस्तस्यापि 'विशेषवत्त्वं स्यादिति नेदं लक्षणं साधु / एकरूपाः स्वरूपसन्तो विशेषा इति केचिद् वदन्ति / व्यावृत्तबुद्धिजनकत्वमेकमेवरूपं 'न त्वनुवृत्तबुद्धिजनकत्वं द्वितीयं. रूपम्, येषामित्यनेन 'सामान्यविशेषात् स्वरूपमन्त इत्यनेन रोमस्तोमादेर्व्यवच्छेदः, तदपि न समीचीनम, सत्तासामान्यस्यापि स्वरूपसतोऽनुवृत्त प्रत्ययजनकत्व लक्षणेकरूपकत्वात् विशेषत्वप्रसक्तेः। तस्मान्नित्यद्रव्येष्वेव व्यावृत्तकप्रत्ययहेतवो विशेषा इति लक्षणं साधु / [समवायलक्षणम् / ] अयुतसिद्धयोः इति :-आश्रयायिभावः इत्यनेन धर्मसुखयोः कार्यकारणभावो "व्योमव्योमशब्दयो"र्वाच्यवाचकभावश्च व्यवच्छिन्नः। . [30] [ पदार्थानां साधर्म्यवैधर्म्यनिरूपणम् ] यत्तावत् अस्तित्वं वस्तुस्वरूपमेव नाभ्युपगम्यते किन्त्वस्तित्वं नाम धर्मविशेषो वस्तुस्वरूपात्पृथक् स किं सर्ववस्तुव्यापक: ? प्रतिवस्तुभिन्नो वा ? प्रथमे दूषणं तेषामेकस्मिन् इति / द्वितीये "तु अथास्तित्वम् इति / [पं०] [30] तदेव तस्यास्तित्वमिति / कोऽर्थः ? न त्वस्तित्वं भिन्नो धर्मः / न समवायलक्षणावृत्तिरितिसमवायलक्षणसम्बन्ध आश्रितत्वशब्देन नोच्यत इत्यर्थः / समवाये तदभावादिति-समवाये समवायवृत्त्यभावात् / निस्समवायो हि समवायः / तत्कल्पनायर्यमिति-अस्तित्वकल्पनावैयर्थ्यम् / येषां त्विति - अस्माकम् / नाप्यस्तित्वमनर्थकमिति-अत्र अस्तित्वं स्वरूपसत्त्वम् / [10] [30] धर्माणां षट्पदार्थानतिरेकात् पदार्थानां चोद्दिष्टत्वात् किमर्थमुत्तरः प्रबन्ध इति शङ्कामपनयन्नेव सङ्गति करोति यदपीति (कं. 16.3) / "स्वरूपस [व]त्त्वं विधिप्रत्ययविषयत्वम् / अस्यैव षट्पदार्थानतिरेकमाह 1 पदार्थानामस्तित्वाभिधेयत्वज्ञेयत्वानि-कं. 1, कं. 2; पदार्थानां साधय॑मस्तित्वाभिधेयत्वज्ञेयत्वानि-पा. 5. पु. दे.; 2 'ज्ञेयत्वम्' ताडपत्रीयपुस्तकस्य पाठः प्राचीनत्वाच्छुद्धत्वाच्च स्वीकृतः व्योमबत्यामपि समाहारद्वन्द्वमाश्रित्यायं पाठः स्वीकृतः / 3 धर्मरूपतया-जे. 1, जे. 3 / 4 यस्य वस्तुनो यत्सारूपं-कं. 1, कं. 2 / 5 मध्यमध्यासीन -क; मध्याध्यासीन-ड; 6 कत-अ, ब, क; विशेषत्व-ड; 8 न त्वं वृत्त-अ; 9 विशेषात्-अ, ब; 10 प्रत्ययलक्षणेकरूपत्वात्-अ, ब, 11 व्योमशब्दयो-अ; 12 वाचकप्रत्ययहेतवो विशेषाभावश्च-ब; 13 तेषां कस्मिन् - अ, ब; 14 तु र पुस्तके नास्ति। 15 स्वरूपवत्त्व - कं.।