________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 53 न्यायकन्दली अनुद्दिष्टेषु धम्मिषु धर्मा न शक्यन्ते वक्तुम्, अतो धर्माणामुद्देशं प्रक्रमयितुं 'सङ्गति प्रदर्शयति-एवमिति / एवं पूर्वोक्तेन ग्रन्थेन धम्मॆविना धर्मान् परित्यज्य धम्मिणामुद्देशः कृतः, धम्मिणां संज्ञामात्रेण सङ्कीर्तनं कृतमिदानी धर्मा उद्दिश्यन्त इति भावः / यद्यपि पूर्वं द्रव्यादीनां विभागः कृतस्तथाप्युद्देशः कृत इत्युक्तम्, विभागस्य नामधेयसङ्कीर्तन मात्रेणोद्देशेऽन्तर्भावात् / [टि०] [कर्मलक्षणम् / ] एकद्रव्यमिति - एकमेव द्रव्यं समवायिकारणत्वेन यस्येति विग्रहः, तेनाद्रव्याश्रितादनेकद्रव्याश्रिताच्च 'द्रव्याद् व्यवच्छेदः / अनेकद्रव्याश्रिता नित्यत्वेनाद्रव्यकारणाच्च सामान्यात, नित्यत्वादेव विशेषात् असमवेतत्वात् समवायाच्च व्यवच्छेदः / न विद्यते 'गुणो गुणत्वमस्य इत्यगुणमिति गुणव्यवच्छेदः / नञ् तत्पुरुषे तु पुंस्त्वं स्यादिति तावदेकं कर्मलक्षणम्, द्वितीयं तु संयोगविभागयोरनपेक्ष्यकारणं कर्म इति / संयोगविभागयोरुत्पत्तौ यत्स्वोत्पत्ति पश्चाद भाव्यसाधारणभावरूपकारणानपेक्षं तत्कर्म / द्रव्यं हि स्वोत्पत्तिकारणव्यतिरिक्तं कर्मापेक्ष्य संयोगविभागौ जनयति 'इति तद्व्यवच्छेदः / संयोगविभागौ समुदितौ संयोगजसंयोग विभागजविभागौ प्रति न कारणं किन्तु प्रत्येकमिति ताभ्यामपि व्यवच्छेदः / सामान्यविशेषसमवायान्तं त्वनारम्भकत्वादेर्व्यवच्छेदः / स्वोत्पत्तिपश्चाभावि इति भणनात् स्वोत्पत्तिसमवायिकारणद्रव्यापेक्षत्वेऽपि कर्मणो न दोषः / १२आसाधारणेति वचनाददष्टापेक्षत्वेऽपि न दोषः / भावरूपेति भणनात पूर्वसंयोगाभावसापेक्षत्वेऽपि न दोषः / [ सामान्यलक्षणम् / ] "अनुवृत्तमिति - अनुवृत्तं शुक्लादिरूपं पटादावप्यस्तीत्यनुवृत्तप्रत्ययहेतुरिति व्याख्येयम् / [कु०] ननु द्रव्यादीनामुपसङ्ग्राहकाभावे पदार्थानामित्येकतया व्यवहा [रा] नुपपत्तेस्सद्वक्तव्यमित्यपेक्षायामाह षण्णां सामान्यलक्षणमिति (कं. 15.15) / व्यावृत्ततयानवगतानां साधम्यं दुनिमिति / व्यावृत्तलक्षणमाह "व्यावृत्तेति / गुणाश्रयत्वं गुणजातीयात्यन्ताभावा (व) धिकरणजातिमत्त्वम् / गुणस्वरूपमाह - सामान्यवानिति (कं. 15.16) / परस्पराविरुद्ध कार्यासमवायिक कारणा[ण]जातीयो गुण इति लक्षणं सूचितं तस्माद्गुणे ज्ञाते [तद्राहित्यज्ञान तद्राहित्ये ज्ञाते गुणज्ञानमितीतरेत राश्रयत्वं न दोषाय / एकद्रव्यमिति (कं. 15.17) संयोगविभागयोरनपेक्षकारणत्वमेव लक्षणम् / द्रव्यगुणस्तदभावादेव व्यावृत्तौ सिद्धायामित्येतत्पदद्वयं स्वरूपसङ्कीर्त्यर्थमिति द्रष्टव्यम् / . वृत्तकीर्तनस्याप्रस्तुतत्वशङ्कामपाकरोति अनुद्दिष्टिष्विति (कं. 15.21) / "उद्देशान्तर्भावादिति (कं. 15.25) सामान्येनोद्दिष्टस्य अवान्तरे विशेषोद्देशो विभाग इत्यर्थः / .1 सङ्गतमाह-जे. 1; सङ्गतिमाह-जे. 3 / 2 °मात्रत्वेनो - जे. 1, जे. 3 / 3 द्रव्यावश्छेदः -ड; 4 नित्यत्वे- अ, ब; 5 [ ] एतच्चिह्नान्तर्गत: पाठः अब पुस्तकयो स्ति / 6 गुणो इति अ पुस्तके नास्ति / 7 संसयोगयोरन - म; ससंयोगविभागयोरन -ब; 8 पस्वाद् - अ, ब, 9, 10 'इति'-'विभागज' इति पाठौ अबकपुस्तकेषु भ्रष्टौ; 11 न दोषः कर्मण:-अ, ब, क; 12 असाधारणेऽपि-ड; 13 वचनादपि दृष्टाभ, ब; 14 ना-अ; 15 अनुवृत्ति मु. किन्तु-जे. 1, 3 पुस्तकयो: अनुवृत्तं इति पाठः। 16 व्यावृत्तम्-कं. / .17 उद्देशेऽन्तर्भावाद् - कं. /