________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली तदभावश्च सर्वैः प्रमाणैरनुपलभ्यमानत्वाच्छशविषाणवत् / षण्णां सामान्यलक्षणं विधिप्रत्ययविषयत्वम् / 'व्यावृत्तन्तु लक्षणम्-यथा गुणाश्रयो द्रव्यम् / सामान्यवानगुणः संयोगविभागयोरनपेक्षो न कारणं गुणः / एकद्रव्यमगणं संयोगविभागयोरनपेक्षकारणं कर्म / 'अनुवृत्तिप्रत्ययकारणं सामान्यम् / अत्यन्तव्यावृत्तिबुद्धिहेतुविशेषः / अयुतसिद्धयोराश्रयाश्रयिभावः समवाय इति / [टि०] विषाणेनान्यतः समानीतेन संसर्गसम्भवात् / नापि 'शशशिरःसम्भूतविषाणसंयोगो निषिध्यते अप्रती'तस्यानिषेध्यत्वात् / तस्मात्साध्यविकल्पो दृष्टान्तः / सत्यम, अन्यत्र पशुमस्तक विषाणयोर्जन्यजनकभाव: प्रतीतोऽत्र . निषिध्यते, ततश्च प्रतिपन्नस्यैवारोप्य निषेधः पक्षधर्मस्य सर्वत्राप्यपूर्वस्यैव सिद्धेः / षडेवेत्येवकारेण च ये भावरूपाः पदार्थाः ते षड़ लक्षणाक्रान्ता एवेति भावरूपेषु पदार्थेषु षटलक्षणयोगो व्यवच्छिद्यते, अतोऽन्या भावोऽर्थादेव भावरूपः पदार्थः षड्व्यतिरिक्तो नास्तीति प्रतीयते, अथवा भावस्वरूपेषु षड् लक्षणातिरिक्तः / / [द्रव्यलक्षणम् / गुणाश्रयो द्रव्यमिति लक्षणमुत्पन्नमात्रे निर्गुणेऽवयविनि गुणवत्ताभावादव्यापकमिति केचित् “कदापि' इत्यनेन विशेषयन्ति, तन्न युक्तम्, विकल्पानुपपत्तेः / तथा हि अपि इत्यनेन न सर्वदेत्याक्षिप्यते / ततश्चैकदा यद् गुणाश्रयस्तद् द्रव्यं यदि तदा नित्यद्रव्याणां द्रव्यत्वं न स्यात् / अथ सर्वदैव गुणाश्रयस्तदा प्रत्यग्रोत्पन्नमगुणं द्रव्यं न स्यात्, एकस्यानुगतलक्षणस्याभावात् / तस्मात्सामान्येन 'एकदा' 'सर्वदा' इति विशेषानपेक्ष 'गुणाश्रय' इत्येतावदेव लब्धम्, योग्यतया तु] प्रत्यग्रोत्पन्नस्यापि द्रव्यत्वमिति / / [गुणलक्षणम् / ] सामान्यवान् इति सामान्यादित्रयव्यवच्छेदः / अगुण इत्यनेनेतरेतराश्रय [प्रसङ्गात् द्रव्यव्यवच्छेदार्थ कार्यानाश्रय इत्युपलक्षणीयम् / न विद्यते गुणोऽप्रधान कार्यद्रव्यमाधेयतया यस्येति व्युत्पत्त्या कार्यस्य कारणपा,रतन्त्र्येण "गौणत्वम् / ननु संयोगविभागावेव गुणेषु मध्ये संयोग"विभागजनको नान्ये गुणा इत्यव्यापकं लक्षणम् / न, कर्म तावत्सं योगविभागयोर नपेक्ष्य "कारणं भवति / तद्रूपो गुणो न भवतीतिकर्मरूपतानिषेध एव तात्पर्यात् / [पं०] संयोगविभागयोरनपेक्षो न कारणं गुण इति - संयोगविभागसापेक्ष एव रूपादिगुणो द्रव्यरूपादिगुणोत्पादकः / वैशेषिकमते हि गुणाश्च गुणान्तरमारभन्ते इति पठयते। एकद्रव्यमिति - एकैकत्र द्रव्ये वर्तमानम् / “अवृत्तमिति - समवायलक्षणः / अनुवृत्तिप्रत्ययहेतुरित्यर्थः / [कुo] (कं. 15.13) शक्त्यादीनामेवात्रान्तर्भावादिति भावः / तथाहि शक्तिस्तावत्स्फोटकार्यान्यथानुपपत्ति कल्प्यमाना प्रतिबन्धाभावो वा वस्तुस्वरूपं वा ? आद्येऽभावानुप्रवेशः, द्वितीये द्रव्यगुणकर्मानुप्रवेशः / सादृश्यत्व अभावानुद्देशकारणं प्रागभिहितमेव, तदधिकानां बुद्धयनारोहमेवाह तदभावश्चेति (कं. 15.14) / सर्वेषां प्रमातृणामनुद्दिष्टशक्त्यादिविषयप्रमाणानुदयादित्यर्थः / / 1 व्यावृत्तं लक्षणम् -जे. 1; जे. 3 / 2 अनुवृत्तं सामान्यम् -जे. 1; जे. 3 / 3 शशि-अ, ब; 4 तद्धयनिषेधत्वात्-अ। 5 विषाणविषाणयो-अ, ब; 6 भावा-अ, ब; 7 लक्षणातिरिक्त इति आवृत्तं अबपुस्तकयो:, 8 षट्-अ, ब; 9 अत - अ, ब, 10 [ ] एतच्चिह्नान्तर्गतो पाठः अब पुस्तकयो स्ति / 11 [ ] एतच्चिह्नान्तर्गतो पाठः ड पुस्तके नास्ति / 12 व्युत्पत्ता-ड; 13 गौणत्वात् -ड; 14 जनको-ड; 15 विभागयो-अ; 16 रपेक्ष्य-ड; 17 कारणे-अ, ब; 18 अनुवृत्तं-अ; अनुवृत्ति - कं.।।