________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [29] एवं धर्मविना म्मिणामुद्देशः कृतः / न्यायकन्दली वस्तु परमार्थतः, परस्परविलक्षणेन रूपेण तयोराकारयोः प्रतिभासनात् / विलक्षणाकारबुद्धिवेद्यत्वस्यैव भेदलक्षणत्वात्, अन्यथा भेदाभेदव्यवस्थानुपपत्तेः। तस्मान्न स्वरूपाभेदोऽप्यपतसिद्धिः, किन्तु अयुतसिद्धानामिति परस्परपरिहारेण पृथगाश्रयानाश्रितानामित्यर्थः / तथा च सति सम्बन्धो नानुपपन्नः, स्वरूपभेदस्य सम्भवात्, भिन्नयोश्च परस्परो'पश्लेषस्य दहनायःपिण्डयोरिव विना सम्बन्धेनासम्भवात् / इयांस्तु विशेषःबह्निरुत्पत्तेः पश्चादयःपिण्डेन सह सम्बद्धयते, इह तु स्वकारणसामर्थ्यादुपजायमानमेव तत्र सम्बद्घते, यथा छिदिक्रिया छेद्येनेत्यलम् / [29] ननु किमर्थ षडेव पदार्था उद्दिष्टा नापरे? 'तेषामेव भावात्, तदन्येषामभावाच्च / टि०] [29] . [अभावचर्चा ] ___ तदभावश्च सर्वैः इति - आश्रयासिद्धिभयादनेन प्रमाणं सूचितम् - 'द्रव्यगुणादिपदार्थषट्कातिरिक्तो भावरूप: पदार्थोऽस्तीति वाक्यमनर्थकम्, प्रमाणानुपलभ्यमानार्थत्वात्, शशविषाणमस्तीति वाक्यवत् / ' ननु दृष्टान्ते किं शशो निषिध्यते ? विषाणं धा? तयोः संयोगो वा? नाद्यद्वयम, 'स्वस्वस्थाने तयोविद्यमानत्वात् / नान्त्यः गवादि [पं०] तत्राह न च तदेकं वस्तु परमार्थत = इत्यादि - अत्र च तदिति तन्तुपटस्वरूपम् / ननु दहनायस्पिण्डयोरयुतसिद्धत्वाभावात्कथं दृष्टान्तत्वम् येन दहनायस्पिण्डयोरिवेत्युच्यते, - इत्याशंक्याह - इयांस्तु विशेष इत्यादि / उपजायमानमेवेति-पटादि / तत्रेति = तन्त्वादौ / [29] ननु किमर्थं षडेव पदार्था उद्दिष्टा नापरे इति प्रश्नः / तेषामाभावादित्युत्तरम् / सर्वैरिति-प्रमातृभिः / विधिप्रत्ययविषयत्वमिति - अस्तीतिप्रत्ययगोचरत्वम् / 'व्यावृत्तं लक्षणमिति असाधारणं लक्षणं वक्ष्यते इति "शेषः / [कु०] पृथगाश्रयानाश्रितानामिति (कं. 15.9) पृथग्गतिविरहिणां चेति शेषः / परस्परोपसंश्लेषस्य परस्परोपश्लिष्टावयवादिसामान्यमेव / वैशिष्टचं विशिष्टबुद्धिविषयतावस्तुस्वरूपं वा व्यावृत्तिर्वा / ततोऽधिकानां बुद्धयनारोहाकिमर्थ नोद्दिष्टा इति शताया अभावा[द] नुत्तरमवचनीयमेवतया 'इहेदमिति प्रत्ययस्य सम्बन्धमन्तरेणानुपपत्तेरिति न प्रमाणं दर्शितम् / प्रयोगस्तु तन्तुपटाः सम्बद्धाः इह प्रत्ययविषयत्वात् / ‘दहनादयःपिण्डवदिति (कं. 15.10) न च संयोगेन सिद्धसाधनमित्याह इयांस्त्विति (कं. 15.11) / न तन्तुपटयोर्दहनायःपिण्डवदप्राप्तिपूविका प्राप्तिरित्यर्थः / [29] नन्विति (कं. 15.13) अयमाशयः शक्तिसादृश्यादयोऽपरेऽपि प्रतीयन्ते तावत् / यथासम्भवहेयोपादेयभावेन त[जज्ञानमपि निःश्रेयसोपयोग्येव / ततश्च तदनुद्देशा[न् ] न्यूनत्वमुद्देशस्येति / उत्तरं 'तेषामभावादिति 1 नुपपत्तिः - जे. 1; जे. 3 / 2 पसंश्लेषस्य - जे. 1; जे. 3 / 3 रुत्पद्य-जे. 1; जे. 3 / 4 तेषामसम्भवात् -जे. 1; जे. 3 / 5 सुस्वस्थानतमो-अ, स्वस्वस्थानतमो-ब; 6 व्यावृत्तं तु-कं.। विशेष:-ब.। 8 दहनायःपिण्डयोरिव-कं.। 9 तेषामेव भावात-कं.।