________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली क्रमाग्रहणनिमित्तोऽयं भ्रमो न तु वास्तवं योगपद्यम् / ननु प्राप्तिपक्षे 'सान्तरालोऽयमिति ग्रहणं न स्यात्? न, अन्यथा तदुपपत्तेः। इन्द्रियसम्बन्धस्यातीन्द्रियत्वान्न तदभावाभावकृतौ सान्तरनिरन्तरप्रत्ययौ, किन्तु शरीरसम्बन्धभावाभावकृतौ, यत्र शरीरसम्बद्धस्यार्थस्य ग्रहणं तत्र निरन्तरोऽयमिति प्रत्ययः, यत्र तु तदसम्बद्धस्य ग्रहणं तत्र सान्तर इति / बाीकैकेन्द्रियग्राह्यविशेष गुणवत्त्वानीति / बाकिकेन्द्रियेण चक्षुरादिना ग्राह्या ये विशेषगुणा रूपादयस्तैस्तद्वत्ता पृथिव्यादीनामिति / अन्तःकरणग्राह्यत्वमप्येषां गुणानामस्ति, ततश्चकैकेन्द्रियग्राह्यत्वमसिद्धम्, तदर्थं बाह्यग्रहणम् / एकैकग्रहणं स्वरूपकथनार्थम्। [टि०] प्राप्यमर्थ गृह्णाति तर्हि यथा स्पर्शनेन प्राप्ते निरन्तर: सम्बद्धोऽयमर्थो मया [गृहीत इति प्रत्ययो भवति तथा चक्षुरिन्द्रियप्राप्तेऽपि स्यात्, न तु सान्तरोऽसम्बद्धो मया गृहीत इति] सान्तर प्रत्ययस्याप्राप्तिनिबन्धनत्वात् / अस्ति चैवं प्रत्ययः ततोप्राप्तस्यैव ग्रहणं मन्तव्यमिति / समाधत्ते नान्यथा इति / स्पर्शनगृहीतेऽप्यर्थे संयोगस्य द्विष्ठत्वात् त्वगिन्द्रियस्य चातीन्द्रियत्वात् न तत्रापीन्द्रियसंयोगजनितो निरन्तर प्रत्ययः, किन्तु देहसम्बन्धजनित इति तस्यैव तत्र कारणत्वम्, देहसंयोगाभावस्य तु “सान्तरप्रत्यये कारणत्वमिति / एकैकग्रहणम् इति-विशेषगुणानां बाह्येन्द्रियेण केकेनैव ग्राह्यत्वेन व्यवच्छेद्याभावात् / [पं०] रश्मीनां पदार्थसन्निकर्षे कक्षीयक्रियमाणे इत्यर्थः / सान्तरालयोऽयमिति / ग्रहणं न स्यादिति-विप्रकृष्टोऽयमिति ग्रहणं न स्यात् / नायनरश्मयो हि यदि तत्र गत्वाऽथं गृह्णन्ति तदा किं दूरं किं वा आसन्नमिति भावः / श्रीधरःप्राह नान्यथा तदुपपत्तेरित्यादि / न तद्धावाभावकृतौ सान्तरनिरन्तरप्रत्ययाविति-नेन्द्रियसम्बन्धभावाभावकृतौ सान्तरनिरन्तरप्रत्ययौ इत्यर्थः / अत्र चेन्द्रियसम्बन्धभावकृतो निरन्तरप्रत्ययः / इन्द्रियसम्बन्धाभावकृतस्तु सान्तरप्रत्यय इति द्रष्टव्यम् / ननु यथासंख्यमनुसार्य शास्त्रशैल्या यथासंख्यमर्यादाया इह निर्वाहात् / [कु०] वा स्यात् / तदुभयं व्यवहितविप्रकृष्टयोरप्यविशिष्ट प्राप्तिरूपसहकारिवैकल्यमेव केवलमवशिष्यते इत्याह इन्द्रियस्येति (कं. 23.8) / अयं प्रयोगः चक्षुरावरणं प्राप्तिप्रतिबन्धकतया आवियमाणकार्य विरुणद्धि आवरणत्वादश्रुवत् / तथा च सतीति (कं. २३.१५)-व्यवहितयोरिन्द्रियार्थयोः प्राप्तिव्यतिरिक्तयोग्यत्ये कार्याभावे च मति अनुमानं सुलभम् - अन्यथासिद्धिस्वरूपासिद्धिशङ्काया अनवकाशत्वादित्यर्थः / व्यवहिताप्रकाशत्वादित्यत्र सर्वथाप्रकाशकैर्व्यभिचारपरिहाराय प्रकाशकत्वे सतीति विशेषणीयो हेतुः / ... न त्वनिन्द्रियस्योपाथिधित्व [मित्याशङ्कयाह बाह्येन्द्रियत्वादिति (कं. 23.16) / अनुपलम्भबाधिता रश्मय इत्यत आह अनुभूतेति (कं. 23.17) / ननु यदि रश्मयो निःसरन्ति तहि ग्रहणस्पष्टास्पष्टत्वे किं कृते इत्यत आह "यद्रश्मय (कं. 23.19) / शङ्कर्न यद्गच्छतीति (कं. 23.22) / 1 सान्तसेऽयमिति-जे. 1, जे.३। 2 गुणवत्त्वमिति -जे. 1, जे. 3 / 3 निरन्तरसान्तरवेगविलक्षणावबद्धोऽयमों-अ, ब, क; 4 [ ] एतच्चिह्नान्तर्गतः पाठः ब पुस्तके आवृत्तः 5 प्रत्यष्व - अ, प्रत्यक्ष -ब; 6 नान्येषु-ब, क; 7 प्रत्ययम-अ, ब; 8 सान्त-अ, ब; 9 तथा सति - कं.। 10 यत्र च रश्मय - कं.।