________________ न्यायकन्दलीसंबलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [40] चतुर्णा द्रव्यारम्भकत्वस्पर्शवत्त्वे / त्रयाणां प्रत्यक्षत्वरूपवत्त्व'द्रवत्वानि / न्यायकन्दली [40] चतुर्णा द्रव्यारम्भकत्वस्पर्शवत्त्वे / चतुर्णां पृथिव्युदकानलानिलानाम् / द्रव्यारम्भकत्वं द्रव्यं प्रति समवायिकारणभावः / स च निजा शक्तिरेव / स्पर्शवत्त्वं स्पर्शसमवायः। त्रयाणां प्रत्यक्षत्वरूपवत्त्वद्रवत्वानि / त्रयाणां क्षित्युदकतेजसां प्रत्यक्षत्वमिन्द्रियजज्ञानप्रतिभासमानता, न तु महत्वादिकारणयोगः, रूपवत्त्वमित्यस्य पुनरुक्तत्वप्रसङ्गात् / नन्वात्मनोऽपि प्रत्यक्षत्वमस्ति ? सत्यम्, बाह्येन्द्रियापेक्षया 'त्रयाणां प्रत्यक्षत्वमित्युक्तम् / तथा रूपवत्त्वं रूपसमवायः। 'द्रवत्वं द्रवाणां भावो द्रवत्वं तञ्च गुणान्तरम् / [टि०] [40-41] न तु महत्त्वादीति महदनेकद्रव्यवत् रूपवत् प्रत्यक्षमिति / ननु रूपवत्त्वमित्यस्य पौनरुक्त्य न भविष्यति, तत्र सामान्येन रूपस्य विवक्षितत्वाद् इह तु उद्भूतस्य रूपस्य प्रत्यक्षताहेतुत्वादिति / सत्यम्, अत्रापि विशेषाविवक्षाया रूपमात्रस्यैव विवक्षा इति / [पं०] [40] निजाशक्तिरेवेति - निजं स्वरूपमेव / ननु महत्त्वादिकारणयोग इति महत्यनेकद्रव्यत्वाद्रपविशेषाचौपलन्धिः / रूपवत्त्वमित्यस्य पुनरुक्तत्वप्रसंगादिति महत्त्वानेकद्रव्यवत्त्वादीनां रूपवत्त्वाव्यभिचारात् / नन्वात्मनोऽपि प्रत्यक्षत्वमस्तीति अन्तःकरणसंवेद्यत्वात् / इति चार्थ इति- इति चकारस्यार्थः / [कु.] विशेषगुणा रूपादय इति (कं. 24.5) - शुक्लत्वभास्वरत्वाद्यवान्तरसामान्यापेक्षया रूपरसस्पर्शानां विशेषगुणत्वं द्रष्टव्यम् / 1 द्रवत्ववत्त्वानि-कि. रूपवत्त्ववत्वानि-दे.। 2 त्रयाणामित्युक्तम् - कं. 1, कं.२। 3 द्रवत्वं द्रवत्वं नामकं. 1, कं. 2 / 4 मात्रस्य - अ, ब;