________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 77 प्रशस्तपादभाष्यम् [41] द्वयोर्गुरुत्वं रसवत्त्वञ्च / भूतात्मनां वैशेषिकगुणत्त्वम् / क्षित्युदकात्मनां चतुर्दशगुणवत्त्वम् / आकाशात्मनां क्षणिकैकदेशवृत्तिविशेषगुणवत्त्वम् / न्यायकन्दली [41] द्वयोर्गुरुत्वम् / द्वयोः पृथिव्युदकयोः, गुरुत्वन्नाम गुणान्तरम्, तस्य भावात् पृथिव्यामुदके च गुरुशब्दनिवेशः / रसवत्त्वञ्च रससमवायः, न केवलं तयोर्गुरुत्वं रसवत्त्वञ्चेति चार्थः / भूतात्मनां वैशेषिकगुणवत्त्वम् / भूतानां पृथिव्यप्तेजोवायुनभसा'मात्मनां च वैशेषिकगुणयोगः। विशेषो व्यवच्छेदः, विशेषाय स्वाश्रयस्येतरेभ्यो व्यवच्छेदाय प्रभवन्तीति वैशेषिका रूपादयस्तद्योगो भूतात्मनाम् / क्षित्युदकात्मनां चतुर्दशगुणवत्त्वम् / क्षितेरुदकस्यात्मनां चतुर्दशगुणयोगः / आकाशात्मनाञ्च क्षणिकैकदेशवृत्तिविशेषगुणैः सह योगो विद्यते इत्याहआकाशात्मनामिति / विशेषगुणाः पृथिव्यादीनामपि सन्ति, सन्निवृत्त्यथमेकदेशवृत्तिग्रहणम्। 'ये च ते आकाशात्मनामव्याप्यवृत्तयो विशेषगुणास्तेषामाशुतरविनाशित्वञ्च स्वरूपमस्तीति क्षणिकसङ्कीर्तनं कृतम् / [पं०] [41] क्षित्युदकात्मनां चतुर्दशगुणयोग इति - रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभाग[पर] त्वापरत्वगुरुत्वद्रवत्वसंस्कारलक्षणाश्चतुर्दशगुणाः क्षितेः / त एव गन्धरहिता स्नेहसहिताश्चतुर्दशोदकस्य / संख्यापरिमाणपथकत्वसंयोगविभागबद्धिसुखदुःखेच्छाद्वेषप्रयत्नसंस्कारधर्माधर्मस्वरूपास्तु चतुर्दशात्मनः / आकाशात्मनां च क्षणिककवेशवृत्तिभिविशेषगुणैः सह योगो विद्यत इति - आकाशस्य शब्दो विशेषगुणः, आत्मनां तु बुद्धिः / तथामि (?) ति शब्दो बुद्धयादीनाम् / [कु.] [41-42] ननूत्पद्य विनाशकारणसन्निधिमनुभूय नश्वराणां कथं क्षणिकत्वमित्यत आह आ[शु]तरेति (कं. 25.9) / दिक्कालयोः सर्वोत्पत्तिमन्निमित्तकारणत्वे प्रमाणं पृच्छति नन्विति (कं. 26.14) / अनिमित्तेऽपि दर्शनादिति (कं. 25.16) / अधिकरणस्य कारकत्वेऽपि सामान्यापेक्षया अवर्जनीयसन्निधित्वाद्विशेषस्य च व्यवहारो देशनिमित्तत्वं, 3 मात्मनां-क. 1 / 4 ये च-जे. 1 / 1 चेति-कि., दे.। 2 निवेशात् -जे. 1, जे. 2 / 5 "कृतम्' - इति जे. 1; जे. 3 पुस्तकयो स्ति /