________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली युतसिद्धिः पृथग वस्थितिः, पृथग्गमनयोग्यता, सा ययोर्नास्ति तावयुतसिद्धौ, तयोर्यः सम्बन्धः स समवायः, यथाकाशद्रव्यत्वयोरिति / अयुतसिद्धयोः सम्बन्ध इत्युच्यमाने धर्मस्य सुखस्य च यः कार्यकारणभावलक्षणः सम्बन्धः, सोऽपि समवायः प्राप्नोति, तयोरात्मकाश्रितयोर्युतसिद्धयभावात् / तदर्थमाधा-धारभूतानामिति पदम्, न त्वाकाशशकुनिसम्बन्धनिवृत्त्यर्थम्, अयुतसिद्ध'पदेनैव तस्य निवर्तितत्वात् / एवमप्याकाशस्याकाशपदस्य च वाच्यवाचकभावः समवायः स्यात्, तन्निवृत्त्यर्थमिहप्रत्ययहेतुरिति / [टि०] द्रष्टव्यम् / ननु सामान्यं विशेषाक्रान्तमेव दृष्टं यथा वृक्षत्वं शिश'पाद्याक्रान्तम् न पुनस्तद्रहितम्, तदत्रामूर्तेष्वाकाशकालादिषु विशेषयुतसिद्धिलक्षणं पृथगाश्रयाश्रयित्वम् 'पृथग्गतिमत्त्वं च नास्तीति कथं सामान्यलक्षणस्यापि सम्भवः ? अथ विशेष लक्षणानाक्रान्तमपीदं दृष्टं तर्हि युतसिद्धया व्याप्तः संयोगः कालाकाशादिभ्यो युतसिद्धिनिवृत्तौ [नि] वर्तत इति न वाच्यम् / नैवम्, विशेषयुतसिद्धयभिप्रायेणाकाशादिभ्यो युतसिद्धि निवृत्तौ संयोगनिवृत्तिरुक्ता न पुनः सामान्ययतसिद्धचभिप्रायेण इति / नन् तथापि परमाण्वाकाशयोः सर्वदा प्राप्तयोरेव विद्यमानत्वात् युतसिद्धचभावप्रसङ्गः तदभावे च संयोगाभावप्रसङ्गः / सत्यम कल्पितप्रदेशापेक्षया विद्यमानयोरप्राप्तिरस्त्येवेति / [एवमप्याकाशस्य ] इतिः- आकाश इत्येवंरूपस्य शब्दस्याकाशसमवेतत्वेन पदार्थस्य चायुतसिद्धत्वादाधार्याधार'भूतत्वाच्च वाच्यवाचकभावसम्बन्धोऽपि समवायः प्राप्नोति, स 'इह' इत्यादिना व्यवच्छिद्यते यस्तु 'इहाकाशे शब्द' इति प्रत्ययः समवाय हेतुको न तु वाच्यवाचकसम्बन्धहेतुक इति दर्शयति वाच्यवाचक भावे हि इति / 40] स्वावयवेति पार्थिवे / इदं च जातीयकवचनं स्वावयवेष्वित्यर्थः / स्वावयवेषु वायवीयपरमाणष्वित्यर्थः / घ्राणेन्द्रियं पार्थिवम् / रसनेन्द्रियमाप्यम् / चक्षुरिन्द्रियं तेजसम् / त्वगिन्द्रियं वायवीयम् / श्रवणेन्द्रियं नभ इत्येतत्पुरो वक्ष्यते / पृथग्गमनयोग्यतेति द्वयोः पृथग्गमनमन्यतरस्य वा। द्वयोर्यथा परमाण्वोः, अन्यतरस्य यथाऽऽकाशापेक्षयाऽपरमाणोः / आकाशं हि पृथग्न गच्छति / व्यापकत्वान्निष्क्रियत्वाच्च / परमाणुस्तु विवक्षिताकाशादितस्ततो गच्छतीति तत्त्वम् / [कु०] ननु मुख्यधर्मयोः कार्यकारणभावस्य शब्दार्थयोर्बाच्यवाचकभावस्य च व्यावृत्तिरूपसम्बन्धितया प्राप्तिरूपसम्बन्धत्वाभावादयतसिद्धेरनेन प्राप्तेरित्यभिधानाप्रसक्तरुपरितनपदद्वयं व्यर्थमिति चेत, मैवम, इह हि समवायस्वरूपप्रदर्शन परम् एव भाष्ये पदानां प्रयोजनमात्रमभिहितं, परमार्थतो लक्षणमयुतसिद्धानामित्यनेन सूचितं नित्यः सम्बन्धः समवाय इति / तथा हि अयुताः प्राप्ता एव ये सिद्धाः तत्सम्बन्धः समवाय इत्युक्तः प्राप्तः पूर्वसम्बन्धिनो . रसतोरकारणत्वादकार्यायाः प्राप्तेनित्यत्वं प्रतीयते इति केचित् / वयं तु ब्रूम: यद्यपि सम्बन्धिपदे उपसर्जनतया प्राप्तिः प्रतीयते तथापि तस्या एव लक्षणत्वकल्पनायां श्रुतार्थपरित्यागो दोष: स्यादिति यथाश्रुतमेव साध्विति / नित्यः सम्बन्धः समवाय इति वादिनां त्वेकार्थसमवायिनोरपि परस्परं समवायः स्यात्, तच्चानुपपन्न इत्यप्रत्ययाभावात् / 1 पदेनैव व्यावर्तितत्त्वात् - जे. 1; जे. 3 / 2 पाद्याक्रान्तं-अ, पात्वाद्याक्रान्तं-ड; 3 पृथग्भवतिमत्त्वम् - अ, ब; 4 लक्षणाक्रान्त-अ; 5 निमित्ता-अ, ब; 6 परमाण्वाकाशयोरेव विद्यमानत्वात - अ, ब; परमाण्वाकाशयोः प्राप्तयोरेव विद्यमानत्वात् - क.। 7 [ ] एतचिह्नान्तर्गत: पाठ: अब पुस्तकयो स्ति / 8 भूतत्वात्व - अ, भूतत्वान्न-ब। 9 हेतुवाचवाचक-अ; 10 हैक - अ; 11 भावो- अ, ब, क;