________________ 48 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली पृथगवस्थितिरुभयोरपि सम्बन्धिनोः परस्परपरिहारेण पृथगाश्रयाश्रयित्वम् सा ययो स्ति तावयुतसिद्धौ, तयोः सम्बन्धः समवायः / यथा तन्तुपटयोः / यद्यपि तन्तवः 'पटव्यतिरिक्ताः पटे न समवयन्ति, तथाप्युभयोः परस्परपरिहारेण पृथगाश्रयाश्रयित्वं नास्ति, पटस्य तन्तुष्वेवाश्रयित्वात् / यत्र तु द्वयोरपि सम्बन्धिनोः परस्परपरिहारेण व्यतिरिक्ताश्रयाश्रयित्वम्, तत्र युतसिद्धिः, यथा त्वगिन्द्रियशरीरयोः / शरीरं हि त्वगिन्द्रियपरिहारेण पृथगाश्रये स्वावयवे 'समाश्रितम्, त्वगिन्द्रियं च शरीरपरिहारेण पृषगाश्रये स्वावयवे समाश्रितम्, तेनानयोः संयोगो न समवायः / नित्यानान्तु [टि०] तु तन्तुसमवेतत्वात् परं परस्परपरिहारो नास्ति पटस्य तन्तुष्वेव समवेतत्वात् / ] नित्यानां तु इति - 'यदि तु 'पृथग्गतिमत्त्वमेव नित्यानित्य] साधारणा युतसिद्धिः स्यात् तदा त्वगिन्द्रियशरीरयोरपि 'पृथग्गतिमत्त्वाभावादयुतसिद्धिः स्यात / नन्वेकस्य 'पृथग्गतिमत्त्वम् ? द्वयोर्वा ? नाद्यः, परमाणद्रव्यस्य 'पृथग्गतिमतो [युतसिद्धघभावात् संयोगाभावप्रसङ्गः] युतसिद्धेः संयोगव्यापकत्वात् , न द्वितीयः, परमाण्वाकाशयों द्वंयोगतित्वाभावात्, युतसिद्धघ"भावात् संयोगाभावप्रसङ्गः, नैवम्, अत्र विकल्पद्वयस्याविवक्षाप्रतिक्षिप्तत्वात् / ननु नित्ययुतसिंद्धघा नानित्या सम्बन्धिनो व्याप्य"न्ते, अनित्ययुतसिद्धचा तु न नित्या इति लक्षणद्वय"स्याप्यव्यापकत्वम् / युतसिद्धिशब्दवाच्यत्वं तु "न लक्षणम् / साधारणनिमित्तमन्तरेण तद्वाच्यत्वस्यै"वानुपपत्तेः / तस्मादप्राप्तयोविद्यमानता युतसिद्धिरिति व्यापक लक्षणं [पं०] भूतावित्यर्थः / "तन्तवः पटव्यतिरिक्ता न समवयन्तीति-पटे व्यतिरिक्ताः केवलाः सन्तः पटेऽसत्त्वान्न समवयन्ति, किन्तु स्वाश्रये स्वावयवे अंशुप्रचयविशेषरूपे समवयन्तीत्यर्थः / पटस्य तन्तुष्वेवाश्रयित्वादिति - तन्तवो न पटाश्रिता एव, केवलानामपि दर्शनात् / पटस्तु तन्तुष्वेवाश्रितः / अत एवेह पटे तन्तव इति व्यवहारी न प्रवतते किन्तु तन्तुषु पट इति / त्वगिन्द्रियपरिहारेगेति वायवीयत्वेन त्वगिन्द्रियस्य विजातायत्वात्तस्य च पार्थिवशरोरानारम्भकत्वात् / [कु०] विविक्तयोः सम्बन्धयोविद्यमानत्वम् / तदेवं नित्यानित्यसाधारण्येन युतसिद्धिव्याख्याया नित्यानां विभज्य व्याचष्टे उभयोरिति (कं. 14.10) / अनित्यानामेव समवायमुदाहरति सा ययोरिति (कं. 14.11) / जितमुद्धि (युतसिद्धि) भेदाश्रयणस्य फलमाह यत्रद्वयोरिति (कं. 14.13) / (पृथग) ? पृथिव्यातिविरहिणोरिति शेषः / पृथग्गमनयोग्यतेति (कं. 14.17) आरब्धयणुकयोः परमाणोः [ण्वोः] संयोगः समवायो मा भूदिति योग्यताग्रहणम् / यथा आकाशद्रव्यत्वयोरिति (कं. 14.18) उपलक्षणमेतत् यत्रान्यतरदनित्यं गतिमद्वा तत्रापीयमेवायुतसिद्धिस्तयोरपि सम्बन्धः समवाय एव, यथा घटघटत्वयोः परमाणुपथिवीत्वयोर्वा / अयुतसिद्धि"पदेनैवं निवर्तित्वादिति (कं. 14.21) गगनपतत्रिणोः पृथग्गतिमत्वलक्षणा युतसिद्धेः सत्त्वात् / पृथग्गतिमत्त्वं हि सम्बन्धिनो: परस्परं विभागहेतगतिमत्त्वम्, उभयोरन्यतरस्य वा विवक्षितं, तत्पतत्रिणि वृक्षमूलादग्रमारोहति पुरुष इव गगनदेशाद्देशान्तरं गच्छति विद्यत एवेति / 1 पटव्यतिरिक्ताश्रये समवयन्ति-कं. 1: कं. 3; जे. 3 / 2 'त्वगिन्द्रियं चेत्यारभ्य समाश्रितम्'- इत्यन्तः पाठः कं.१; कं. 2 पुस्तकयो स्ति। 3 ये हि-अ, ब; 4, 5, 6, 7 पृथग्भवतिमत्व-अ, ब; 8 [ ] एतच्चिह्नान्तर्गतः पाठः ब-पुस्तके नास्ति। 9 द्वयोः इति ह पुस्तके नास्ति / 10 भावा-अ; भाव-ड; 11 व्याप्यते-अ, ब, क; 12 स्याब्यापकत्वम् -अ,व; 13 'न' अ,ब पुस्तकयो स्ति। 14 वानुपपद्यमानत्वात -ड; 15 व्यतिरिक्ताश्रये समवयन्ति-कं.। 16 यत्र तु-कं.। 17 पदेनैव तस्य /