________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् .. [27] प्रशस्तपादभाष्यम् अयुतसिद्धानामाधा-धारभूतानां 'यः सम्बन्ध इहप्रत्ययहेतुः स समवायः / न्यायकन्दली शब्दादीनां व्यवच्छेदः, तेषां समस्तनित्यद्रव्यप्राप्त्यभावात् / ननु कि 'विशेषा विशेषा एष किं वा द्रव्यत्वादिवदुभयरूपा ? इति / तत्राह--ते खल्विति / खलुशब्दो निश्चये, नित्यद्रव्यवृत्तयो ये विशेषास्ते विशेषा एव निश्चिता, न तु सामान्यान्यपि भवन्तीत्यर्थः। अत्यन्तं सर्वदा, व्यावृत्तेरेव स्वाश्रयस्येतरस्माद्वयवच्छेदस्यैव, हेतुत्वात् कारणत्वादिति / यषा चेदं तथोपरिष्टादुपपादनीयम् / [27] 'सप्रषायस्य स्वरूपं निरूपयति-अयुससिद्धानामिति / युतसिद्धिः पृथसिद्धिः, [feo] द्वितीये तु नित्यद्रव्येष्वेवेत्यनेनैव गुणसामान्यरूपपदार्थव्यवच्छेदे तदेकदेशानां बुद्धिशब्दादीनां व्यवच्छिन्नत्वातदम्यपण्छेदाय वर्तन्त एवेति न कार्यम् / उच्यते, नेदं विशेषाणां लक्षणाभिधानं किन्तु 'स्वरूपकथनमेव / लक्षणन्त अत्यम्तव्यात बुद्धिहेतुर्विशेष इति वक्ष्यते / [समवायपदार्थपरिचयः / ] [27] पटस्य तन्तुष्वेव इति-तन्तुपटयोहि 'पृथगाश्रयाश्रयित्वमस्ति तन्तूनां स्वावयवसमवेतत्वात् ‘[*पटस्य [पं०] असंभवात् / असंभव अद्रव्यवृत्तित्वस्याधिकृतत्वात् / द्रव्यवृत्तित्वस्य चाद्रव्यद्रव्येऽभावात् / गुणास्तु नित्येष्वनित्येषु ये बसन्ते ते इह ग्राह्याः / न त ये नित्येष्वेव / तेषामत्तरत्र व्यवच्छेदत्वादिति परमार्थः / बद्धिशब्दादीनामितिआदिवादात्परिमाणपारिमंडल्यादिव्यवच्छेदः / तेषां समस्तनित्यद्रव्यव्याप्त्यभावादिति-बद्धिशब्दादीनां क्षणिकत्वादाकाशादिष्यवृत्तेषु सर्वेष्विति भावः / उभयरूपा इति = सामान्य विशेषरूपाः / उपरिष्टादुपपादनीयमिति-विशेषपदार्थे / ... [27] युतसिद्धिः पृथसिद्धिरिति अत्र युक् अमिश्रणे इति धातुः / यथा द्वौ भ्रातरौ युतौ जातौ पृथक् [10] गन्धादयः पृथिव्यादीनीत्यत आह न नित्येष्वेवेति (कं. 13.24) / तुल्यकर्मस्वेकद्रव्यारम्भकेषु एकक्षणवतिष्विति शेषः / तत्र तावन्नित्येषु द्रव्येषु कारण।भावादेव कारणद्रव्यं न व्यवच्छेदकं, तुल्यगुणकर्मतया न गुणकर्माणि, -द्रव्यारम्भकतया च न कार्यद्रव्यम्, एकक्षणवत्तितया च न कालोपाधिरित्यर्थः / सामान्यान्यपि नित्यानित्यसाधारणतया नित्येष्वेव व्यवच्छेदकतया न वर्तन्त इत्याह सामान्यानीति (कं. 13.24) आत्मत्वमनस्त्वे यद्यपि नित्येष्वेव बर्तते तथाप्यनेकव्यक्तिसाधारणतया न ताभ्यां सिद्धसाधनतेत्यभिप्रायः / असाधारणैः शब्दबुद्धयादिभिः सिद्धसाधनतां परिहरति वर्तन्ते एवेति (कं. 14.1) तेषामनित्यत्वात तदभावेऽपि तदाश्रयाणां व्यावृत्ततया न तद्व्यतिरिक्तध्यावतकधर्मसिद्धिरित्यर्थः। तदेतदाह तेषामिति (कं. 14.1) / समस्तग्रहणं सर्वकालाभिप्रायं सर्वकालं नित्यद्रव्यमृत्यभावादित्यर्थः / उपरिष्टाद् विशेषवैधयंप्रकरणे। [27] समवाय-स्वरूपं निरूपयतीति (कं. 14.9) / भेदाभावेन विभागस्याकर्तव्यादिति भावः / पृथगवस्थितिः 1 इप्रत्ययहेतुर्यः सम्बन्ध:-दे। 2 विशेषा एव-कं. 1; कं. 2 / 3 समवायस्वरूपं-कं.१; कं.२ / 4 द्वितीये नित्य इत्यनेनैव-अ; द्वितीये तु नित्यद्रव्ये येत्वनेनैव-ब; 5 मुरूप -- अ, ब; 6 बुद्ध-अ, 43; 7 पृथगायित्वा-अ; 8 [ ] एतच्चिह्नान्तर्गतः पाठः-अ-पुस्तके; *...* एतच्चिह्नान्तर्गतस्तथा व पुस्तके नास्ति /